पृष्ठम्:न्यायलीलावती.djvu/५३६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

न्यायलीलावतीकण्ठाभरण- सविवृतिप्रकाशोद्भासिता ४६१ ननु तथापि जाग्रत्प्रत्ययाः निरालम्बनाः प्रत्ययत्वात् स्वप्नप्रत्ययवदिति विद्याऽविद्याविभागोऽनुपपत्र इति चेत्, किमिदं निरालम्बनत्वम् । असत्प्रकाशशीलत्वं वा अन्यथा. ख्यातिरूपत्वं वा स्वात्मालम्बनत्वं वा । न तावदाद्यौ । प्रति बन्धप्रत्ययस्य निरालम्बनत्वे हेतोः प्रतिबन्धासिद्धिप्रसङ्गात् । तत्त्वालम्बनत्वे [तु] तेनैव व्यभिचारात् । न तृतीयः । स्वप्न पद्धतिपतितानां विज्ञप्तीनां बाह्यालम्बनत्वेन स्वात्मालम्बनत्वा- सिद्धेः । तदसिद्धम् । सर्वस्यैव गौरगान्धारमधुरसुकुमारसुरभि (१) शातेतरादिभेदस्य वेदनस्वभावत्वात् । तथा हि यत्प्रकाश- न्यायलीलावतीकण्ठाभरणम् तथापीति | जाग्रत् प्रत्ययानां मिथ्यात्वे सत्यपीत्यर्थः । अव्या- घातकत्वमस्य हृदि निधाय विकल्पयति - किमिति | स्वात्मालम्बनत्व • मिति । 'आत्मा' ज्ञानं तदालम्बनत्वमित्यर्थः । 'प्रतिबन्धो' व्या. प्तिः । तेनैवेति । प्रतिबन्धप्रत्ययेनैवेत्यर्थः । तत्रापि बाह्यालम्बन त्वमसहमानो योगाचारः प्रत्यवतिष्ठते -- तदिति । बाह्यमित्यर्थः । ननु षड्भिरपीन्द्रियैर्वाह्यं विषयीक्रियत एव तथा च कथं तदसि द्धमित्यत आह - सर्वस्यैवेति । चक्षुःश्रोत्ररसनस्व गिन्द्रियप्राणमनसां यथासंख्यं ये विषया गौरादयस्ते वेदनरूपा एवेत्यर्थः । 'शातं' सु- RO न्यायलीलावतीप्रकाशः त्यन्ये | विज्ञानवादिनमुपस्थापयति तदसिद्धमिति | गौरेत्यादिना क्र. मेण चक्षुःश्रोत्ररसनस्पर्शनघ्राणमनोविषयो दर्शितः । इतरपदेन गौर- बत्वादेस्तत्तदिन्द्रियग्राह्यस्य संग्रहः । आदिपदेन प्रत्यक्षान्य प्रमाणवि न्यायलीलावतीप्रकाशविवृतिः अन्य इत्यरुचौ | तद्वीजन्तु जन्यतावच्छेदकजातिप्रतीतौ सेव लक्ष- णमप्रतीताविमपि दुर्ग्रहमिति । विमागोऽनुपपन्न इति मूलम् । निराल. म्वनत्वेनोभयोरव्यविद्यात्वादिति भावः । इतरपदेनेति । एतेन शातशा. तेतरादीति पाठोऽप्रमाणिक इति ध्येयम् । ( १ ) ०भिशातशातेतररा० ।