पृष्ठम्:न्यायलीलावती.djvu/५३८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

म्यायलीलावतीकण्डाभरण- सविवृतिप्रकाशोद्भासिता ४६३ तद्धि न तावदनुभवादेव व्यवस्थाप्यम् । नीलाकारद्वयाननुभ. वात् | नाण्याकारकादाचित्कत्वात् । तस्य भ्रान्तप्रत्ययाकारव- द्वासनापरिपाककादा चित्कत्वेनैवोपपत्तेः । ज्ञानसमानरूपत्वे च बाह्यस्य ज्ञानत्वापत्तेः । सादृश्यं समानत्वमिति चेत्, न, वि. धिरूपस्य तस्यासिद्धे: (१) । अनीलव्यावृत्तिनलधियो: (२) सादृश्यमिति चेत्, किमनीलं बाह्यनीलाकारप्रच्युतिर्वा नीलज्ञा- नप्रच्युतिर्वा ज्ञानाज्ञानसाधारणनीलमात्रप्रच्युतिर्वा । नाद्यः । ज्ञानस्य (३) बाह्यनीलप्रच्युतिनिवृत्तिरूपत्वाभावात् । न द्वितीयः । न्यायलीलावतीकण्ठाभरणम् गर्भत्वादिति भावः | वाह्यनीलादिभेदमभ्युपगम्याह -तद्धीति । बाह्य नोलानुभवे हि तत्सरूपमिदं ज्ञानमित्यनुभूयेत स एव नास्तीत्यर्थः । ननु नीलाकारं ज्ञानं कदाचिदुत्पद्यते तच्च नीलसन्निकर्षाधीनमिति शङ्कते-नापीति । व्यवस्थाप्यमित्यनुषज्यते । अत्रान्यथासिद्धिमाह-तस्ये ति । कामिनीं विनापि यथा कामिनीभ्रमो वासनातस्तथा नीलप्रत्ययो ऽपीत्यर्थः । अत्यन्तसारूप्ये दोषमाह - ज्ञानेति । अनात्यन्तिकत्वं श. ङ्कते - सादृश्यमिति । नीलतद्बुद्ध्योर्भावरूपधर्म्मघटितं न साधर्म्यमि. त्याह - विधीति । व्यावृत्तरूपं शङ्कते - अनीति | वाह्यं यन्नीलतद्भिनं वा ज्ञानं यन्नीलं तद्भिन्नं वा अनीलं यद्द्व्यावृत्तिरुभयोः सारूप्यं स्यादिति विकल्प्य परिहरति — किमिति । बाह्यनीलभिन्नमनीलं ज्ञान- मपि न तद्वयावृत्तिस्तदन्योऽन्याभावो ज्ञान एवेत्याह – ज्ञानस्यैवेति । ज्ञानरूपनीलभिन्नमनीलं वाह्यमपीति तदनीलव्यावृत्तिरुपं कथं न्यायलीलावतीप्रकाशः - त्रविषयत्वेन वाह्यानालम्बनत्वादित्यर्थः । तदेव स्फुटयति-तद्धीति । ज्ञानसमानरूपत्व इति । ज्ञानान्यूनानतिरिक्तरूपत्व इत्यर्थः । बिधिरूपस्येति । न्यायलीलावती प्रकाशविवृतिः चकारोऽस्ति । तत्र एककालसामग्रीकत्वादेकसामग्रीकत्वाश्चेत्यर्थः । नी. लादिभेदस्येति मूलम् नीलादिलक्षणस्य विशेषस्येत्यर्थः । गुणत्वादेस्ताह. ( १ ) विधिरूपस्यासिद्धेः। ( २ ) ०लानीलधि० | ( १ ) ज्ञानस्यैवेति कण्ठाभरणधृतः पाठः । ·