पृष्ठम्:न्यायलीलावती.djvu/५४०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

म्यायलीलावतीकण्ठाभरण- सविवृतिप्रकाशोद्भासिता ४६५ श्यमानताया व्यपदेशजनितज्ञान विषयताऽनतिरेकात | ज्ञानज- नितव्यवहारगोचरत्वमिति चेन्न, इच्छादिरूपस्य व्यवहार स्योपेक्षाज्ञाने (९) sभावात् । तद्द्वोचरसंस्कारस्मृतिजनकत्वमि ति(२) चेत्, [न, ] स्मृतेरपि तद्गोचरताया अनिरुक्तेः । व्यवहारजननयोग्यत्वमिति चेत्, न, योग्यताया एवाऽनव- गमात् । सामग्रीविशेषप्रसूतत्वमिति चेत्, न तावत्सामग्या असाधारणे ज्ञानरूपे जनकत्वम् (३) अन्वयव्यतिरेकेयार भा. वात् । नाप्यवान्तर विशेषे (४) नीलज्ञानत्वरूपाड परसामान्यस्या- भावात् । नीलविषयतारूपस्य विशेषस्यासिद्धेः । स्वरूपमेव ज्ञानस्य विषयित्वं नीलादेव विषयत्वमिति चेत्, न, स्वरूपस्य सर्व प्रत्याविशेषात् ग्राह्य ग्राहकव्यवहारनियमानुपपत्तेः (५) नी. लादिवस्तुस्वरूपस्य सर्वसाधारणत्वोपलम्भेन ज्ञानस्यापि सर्व साधारणत्वात् । सर्व विषयताप्रसङ्गाच्च । ततः प्रकाशतादात्म्यमेव प्रकाशमानत्वम् | नन्वेवं सति साध्या विशिष्टत्वं प्रकाशमानत्वज्ञा- न्यायलीलावतीकण्ठाभरणम् सिद्धेरित्यर्थः । स्मृतेरपीति | स्मृतिविषयत्वातिरिक्तस्य तद्गोचरत्व- स्याभावादित्यर्थः । व्यवहारेति । तथा च उपेक्षाज्ञानेऽपि तत्सत्वादिति भावः | योग्यताया इति । तदवच्छेदकरूपाऽपरिचयादिति भावः । तत्त नीलादिव्यक्तिविषयज्ञानसामग्रीप्रभवत्वं तद्विषयत्वञ्च दुर्ग्रहं नीलज्ञान. सामग्रीप्रसूतत्वं नीलविषयत्वमित्यपि तथा नलिज्ञान स्वत्वादेः सामा- न्यस्याभावादित्याह- - न तावदिति । नीलविषयकं ज्ञानमेवं सति पीत. विषयकमपि स्यात् स्वरूपस्याविशेषादित्यर्थः । एतदेव प्रपञ्चायति - प्रायेति | विज्ञानवादी स्वपक्षमुपसंहरति-तत इति । यत् प्रकाशते तद्विज्ञानमेवेति साध्याविशेषं शङ्कते– नन्विति । धर्म्यभेदेऽपि व्यावृ ( १ ) ० रस्त्यैवोपक्षा० । ( २ ) तद्गोचरस्मृतिज० ( ३ ) ०रणज्ञान रूपअन० । (४) ०न्तरज्ञानरूपे विशेषे (५) हारानुप० ।