पृष्ठम्:न्यायलीलावती.djvu/५४३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

न्यायलीलावती , प्रतीतिः कथमिति चेत् स्वेन रूपेणासम्बद्धस्य स्वप्रकाश इति प्रतीतिः कथमिति तुल्यम् | स्वस्य प्रकाश इति नानुभवोऽपि तु व्यपदेशमात्रमिति चेत्तुल्यम् । नीलप्रकाश इत्यपि व्यपदेश एव । व्यपदेशे किं निमित्त मिति चेत्तुल्यं स्वप्रकाशव्यपदेशेऽपि । काल्पनिकोऽयं व्यपदेश इति चेत्, अस्माकमप्यौपचारिक इत्यवेहि । ज्ञानरूपं चेन्नीलविषयत्वं सर्व प्रति साधारणं स्यात् ( १ ) | अभिन्नत्वमपि ज्ञानस्वरूपमेव । तदपि सर्वसाधार ण्येन व्यवहियेत । किञ्च साधारण्यं किं सर्वसम्बन्धित्वं सर्वे- रेकरूपतया प्रतीयमानत्वं वा सर्वग्राहकता वा । नाद्यः । नी- लेऽभावात् । न द्वितीयः । ग्रहीतृपुरुष साकल्ये ज्ञानस्याप्येकरूप- न्यायलीलावतीकण्ठाभरणम् - । तादात्म्यपक्षेऽपि षष्ठयर्थोऽनुपपन्न इत्याह - स्वेनेति । औपचारिक इति । असम्बन्ध एव स्वरूपसम्बन्ध उपचर्य्यत इत्यर्थः । ननु नीलविषयत्व. स्य ज्ञानत्वे यथा नीलं सर्वसाधारणं तथा ज्ञानमपि सर्वसाधारणं स्यादित्याह-ज्ञानरूपं चेदिति । किञ्च साधारण्यं यन्नीलादिदृष्टान्तेन ज्ञाने आपाद्यत इत्याह – किञ्चति । नीलेऽभावादिति । सर्वसम्वन्धित्वस्येति शेषः । तद्दृष्टान्तेन कथमापाद्यत इत्यर्थः । ग्रहीतृपुरुषेति । यैर्ज्ञानं गृह्यते न्यायलीलावतीप्रकाशः नार्थयोविषयविषयिभावव्यवहारप्रवर्त्तकमिति भावः । ज्ञानरूपं चे[दि?]ति । नीलज्ञानस्य नीलापेक्षयेवानीलापेक्षयापिज्ञानरूपत्वादित्यर्थः | नीलेड न्याय लीलावतीप्रकाशविवृतिः अतः परं मूलव्याख्या | नीलेऽभावादिति । अस्मत्सिद्धसर्वसाधा रणनीलादिविषयदृष्टान्तेन नीलज्ञानत्य सर्वसाधारण्यमापाद्यम्| नीले च विषयरूपे सर्वसाधारण्य मसिद्धमिति दृष्टान्तासिद्धिरिति भावः । एकरूपत्वेनेति । तथा चेष्टापादन मिति भावः । नीलस्यापीति | विषयरूप. स्येत्यर्थस्तथा च दृष्टान्तासिद्धिरिति भावः । नीलस्येति | विषयरूपस्ये- त्यर्थः । तथा च तदेव दूषणमिति भावः । अविशेषापत्तिरिति साधा. ( १ ) ०रणत्वात् ।