पृष्ठम्:न्यायलीलावती.djvu/५४४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

न्यायलीलावतीकण्ठाभरण- सविवृतिप्रकाशोद्भासिता ४६९ त्वेन (१) वेद्यमानत्वात् ग्रहीतृतदितरसाकल्ये च नीलस्यापि तत्त्वा सिद्धेः । न तृतीयः | नीलस्य सर्वग्राहकत्वासिद्धेः । न च ग्रा- ह्यग्राहकयोर विशेषापत्तिः । ज्ञानत्वेनैव विशेषात् । तस्मात् प्रति बन्चासिद्धमेव प्रकाशमानत्वम् । किञ्च साध्यसाधनयोर्व्यतिरेकः प्रतीतो नवा | न चेत् व्यतिरेकासिद्धिः । प्रतीत ( २ ) श्वेद नेकान्तोऽ. ज्ञानस्यापि प्रकाशमानत्वात् । न प्रतीतमज्ञानं किन्त्वध्यवसित मिति चेत्, कोऽध्यवसावः । तत्र व्यवहार इति चेत्, न, देहज- न्यव्यवहारस्य तत्राभावात् । व्यपदेश इति चेत्, न, तत्रापि तस्य ज्ञानाजनकत्वे तदीयत्वाभावात् । ज्ञानजनकत्वे (३) तेनैव व्यभि- चारात् । मानसस्यापि प्रत्ययस्य तद्विषयत्वेऽविषयत्वे च वि · न्यायलीलावतीकण्ठाभरणम् तैरेकरूपतयैवेतीष्टापत्तिस्तथा च दृष्टान्तासिद्धिरिति । तस्मादिति । वाह्यस्य ज्ञानाभेदे साध्ये प्रकाशमानत्वं व्याप्यत्वासिद्धमित्यर्थः । परस्यान्वयव्यतिरेकिमात्रमनुमानमित्यभिप्रेत्याह - किञ्चति । अज्ञानस्या- पीति | साध्यव्यतिरेकस्य साधनव्यतिरेकस्य चेत्यर्थः । तयोरज्ञान. रूपे व्यतिरेको न ज्ञायते येन व्यभिचार: स्यात् किन्तु व्यवह्रियत इत्याह - न प्रतीतमिति । तत्रापीति । व्यतिरेकव्यवहारो हि शब्दप्रयोग- स्तेन व्यतिरेकज्ञानजनने व्यभिचार एव तद्जनने व्यतिरेकस्याऽयं व्यवहार इत्येव न स्यादित्यर्थः | मानसप्रत्ययोऽध्यवसाय इत्यभिप्रे. त्याह - मानसस्येति । अध्यवसायाधीन एव यदि व्यतिरेकव्यवहार. - न्यायलीलावतीप्रकाशः भावात् सर्वसम्बन्धित्वस्येति शेषः । न चेदिति । अन्वयव्यतिरेकिण एक परैरनुमानत्वोपगमा दिति भावः । देहव्यवहारस्त दुहेशेन स्यन्दना- न्यायलीलावतीप्रकाशविवृतिः रण्यासाधारण्ययोस्तुल्यत्वादित्यर्थः । अज्ञानस्येति । ज्ञानभिनव्यतिरे कस्येत्यर्थः । 'तेनैव' विषायेणैव । ननु मानसप्रत्यय एवाध्यवसाय इ. त्यत आह - मानसस्येति । ( १ ) ० रूपेण वै० । ( २ ) अप्रती० । ( ३ ) जनने तु ते० ।