पृष्ठम्:न्यायलीलावती.djvu/५४५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४७० न्यायलीलावती रोधात् | नलिादयोऽपि हि प्रकाशाद्भिना एवाध्यवसीयन्ते, न प्रकाशन्त इति प्रकाशमानत्वं नीलादीनामसिद्धमस्तु । अध्यव सायबलेन वा सकलबाह्यसिद्धिरस्तु । सहोपलम्भनियमादभे- दोऽस्त्विति चेत, न, यौगपद्योपलम्भस्य साहित्योपलम्भस्य वा मेदेऽप्यविरोधात् । एकोपलम्भविषयत्वस्य ज्ञानस्य स्वसंवे दनत्वासिद्धावसिद्धेः ॥ [ इति ] स्वप्नः || अविद्यानन्तरं विद्या विचार्यते | सा द्विविधा | अध्यक्ष मनु- न्यायलीलावतीकण्ठाभरणम् स्तत्राह - नीलादय इति । यथा साध्यसावनव्यतिरेकसिद्धिरध्यवसा यबलेन तथा तत एव सकलवाह्यसिद्धिरपि स्यादित्याह- अध्यव सायेति । नीलं ज्ञानाभिन्नं ज्ञानेन सह नियमेन उपलभ्यमानत्वादिति परः साधनं शङ्कते – सहोपलम्भेति | नियमपदावधूिमादौ व्यभिचार- वारणम् । 'मेदेऽपी' त्यपिशब्द एवकारार्थः । यौगपद्यसाहित्ययोरभेदेऽ. नुपपत्तेस्तथा च विरुद्धो हेतुरित्यर्थः । नीलव्यवसायस्य स्वाचि. षयत्वादेवोपलम्भविषयत्वनियमः स्वरूपासिद्ध इत्याह - एकोपलम्भेति । शब्दादीना मत्रैवान्तर्भाव्यत्वाभिप्रायेण विभज्यते – अध्यक्षमिति । - न्यायलीलावतीप्रकाशः - दिः । अध्यवसायेति । यथा व्यतिरेकव्याप्तिरध्यवसायबलेन तथा नीला. दियाह्यसिद्धिरप्यस्त्वित्यर्थः । यौगपद्येति | विषये उपलभ्यमान एवं परं ज्ञानमुपलभ्यते इत्येवंरूपस्येत्यर्थः । साहित्येनोपलम्भस्य विषये उप- लभ्यमाने उपलम्भमात्रस्येत्यर्थः । ननु ज्ञानं न ज्ञानान्तरेण गृह्यते कि न्तु येनानानी ? ज्ञानेन नीलं गृह्यते तनैव स्वात्मापि ग्रहीतव्य इत्यत आह - (ए ? ) कोपलम्भेति । न्यायलीलावतीप्रकाश विश्वतिः अतः परं प्रकाशव्याख्या | पौनरूक्त्य भिया व्याचष्टे - विषय इति । तया च योगपद्यं नियमपर्यन्तम् । नियमानियमसाधारणन्तु साहि. त्यमिति भावः । अध्यक्षमनुमानं चेति मूलम् अध्यक्षमिन्द्रियमात्रकारण- कम् । तेन यथार्थस्मृतेरपि विद्यात्वेनाकरगणितायाः सङ्ग्रहः । अत