पृष्ठम्:न्यायलीलावती.djvu/५४६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

म्यायलीलावतीकण्ठाभरण-लविवृतिप्रकाशोद्भासिता ४७१ मानञ्च अध्यक्षमपि द्वेधा सर्वज्ञायमन्यथा च । सर्वज्ञासिद्धौ तत्कथम् । तथा हि न सर्वज्ञोऽध्यक्षगम्यः | परबुद्धेस्तदभावात् । नापि परमा - न्यायलीलावतीकण्ठाभरणम् सर्वज्ञायमिति । यौगिकमैश्वरं चेत्यर्थः । अन्यथेति लौकिकमित्यर्थः । तादृशमध्यक्षमसहमानः पूर्वपक्षयति - सर्व्वज्ञासिद्धाविति । षोढा सन्निक र्षजज्ञानभिन्ने साक्षात्वं वत्र्त्तते न वेति विप्रतिपत्तौ सत्यामाह-तथा हीति । यद्यपि सर्वज्ञः स्वकीयाध्यक्षविषयस्तथापि तत्रैव न प्रमाण. मिति भावः । तदेवाह - परवुद्धे [ रि?] ति। परमाणवः कस्यचित् प्रत्यक्षाः मेयत्वसत्वद्रव्यत्वादिभ्यः घटादिवदित्यनुमानं शङ्कते-नापांति । न्यायलीलावतीप्रकाश: न सर्वज्ञ इति । यद्यपि सर्वज्ञासिद्धौ तस्य तज्ज्ञानस्य च निषेधः कर्त्तुं न शक्यस्तथाप्येतद्देशीयैतत्कालीनयोग्यपदार्थविषयक प्रत्यक्ष- स्य तद्भिन्नयावत्पदार्थविषयत्वमेव सार्वइयं तद्यतिरेक एव सार्वश्या. न्यायलीलावतीप्रकाशविवृतिः एव संवंशासिद्धावित्युत्तराक्षपोऽपि सङ्गच्छते । अन्यथा ईश्वरस्य साधितत्वात्तदसङ्गतेः । यद्यपश्वरस्य प्रागेव साधना ( दू ?) योगि साधनार्थमयमारम्भस्तत्र चेश्वराभनं पक्षयित्वा सर्वज्ञत्वाभावला. धने दोषाभावस्तथापीश्वराप्रतीति दशायामयमपि प्रकार इत्याशयेन समाधत्ते - तथापीति । यद्यपि तद्भिन्नेत्यत्र तत्पंदन तत्प्रत्यक्षविषयीभू तपदार्थपरामर्ष एतद्देशीयेत्यादिविशेषणं व्यर्थ तदनुपादाने तत्पदेन योग्यविषयपरामर्षसम्भवाद् यावद्योग्यविषयकप्रत्यक्षस्यासिद्धेः स. र्वशासद्धिरिति तद्विशेषणम् । एतदेव च योग्यपदोपादानस्यापि प्र. योजनम् । यद्यव्येतद्भिन्नयावत्पदार्यविषयकत्वमव्यप्रसिद्धमेव शा- ब्दस्यापि ज्ञानस्य तादृशत्वाप्रतीतरवैतत् प्रकारानुसरणादन्यथा स. वंशब्दजन्यज्ञान एवं प्रतियोगित्वसम्भव कु ( सृ?) टेरनादरात्तथापि शब्दे सर्वविषयकत्वाप्रतीतिदशायामुक्तयावद्विषयत्व प्रतीतिदशायां चायं प्रकारः सम्भवतीति भावः । केचित्तु घटप्रत्यक्ष घटभिन्नयाव निरूपितत्वाभाव एव साध्य इति घटान्योन्याभाव एव प्रतियोगि प्रसिद्धिरित्याहुः ।