पृष्ठम्:न्यायलीलावती.djvu/५४७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४७२ न्यायलीलावती असति वि. शूनां मेयत्वेनाध्यक्षतया साध्यः । तेषामध्यक्षत्वव्या कोपात् । न च बुद्धिवत् स्वतोऽतीन्द्रियत्वेऽप्यध्यक्षत्वाविरोधः परीततर्फे प्रत्यक्षाणुत्वयोः स्वारसिकविरोधात् । विपरीततर्क- सच्चारच | चक्षुरादीनां शक्तिविरहाद्रसवत्तत्राप्रवृत्तेः । मनसो बहिरस्वातन्त्र्यात् | स्वप्ने सिद्धासहकारितावद्योगजधर्मसहका- रित्वे नयनाद्यारम्भवैयर्थ्यात् । स्वप्नस्य च स्मृतिविपर्यास न्यायलीलावतीकण्ठाभरणम् - तेषामिति महत्त्वे सत्युभूतरूपवस्त्वं वहिर्द्रव्य प्रत्यक्षतावच्छेदकमात्मत्वं च मानसद्रव्य प्रत्यक्षतावच्छेदकं तदुभयरहितत्वेन परमाणवो न कस्य. चित् प्रत्यक्षा अनात्मत्वे सति महत्त्वसमानाधिकरणोद्भूतरूपरहि. सद्रव्यत्वादिति सत्प्रतिपक्ष इत्यर्थः । प्रत्यक्षयोग्यतावच्छेदकरूप रहितत्वादिति वार्थः । 'बुद्धिवत्' परबुद्धिवत् । अतोऽतीन्द्रियत्वे परस्याप्रत्यक्षत्वेऽध्यक्षताविरोधः स्वस्येत्यर्थः । पूवीशङ्कितानुमान वि. पक्षबाघकाभावमाह - असतीति । प्रतिकूलतर्कमाह - चक्षुरादीनामिति । उद्भूतरूपवत्वे सति मदत्वमेव वहिर्द्रव्यप्रत्यक्षत्वे शक्तिस्तद्विरहा. दित्यर्थः । रसवदिति । रसग्रहे यथा चक्षुरयोग्यं चक्षुषो वा यथा रसोऽयोग्य इत्यर्थः । ननु मन ( स ? ) स्तद्विषयकज्ञानजनकत्वं स्या. दित्यत आह - मनसो वहिरस्वातन्त्र्यादिति । सहकारिसामर्थ्यादयोग्य- मपि योग्यमेवेत्याशय योगिनां चक्षुरादिनिर्माण वैयर्थ्यामित्याह- नयनादीति | मनस एव योगजधर्मः सहकारी स्यात्तथा च रूपादि- न्यायलालवितीप्रकाशः भावः । तेषामिति । वहिरिन्द्रियजन्यद्रव्य साक्षात्कार विषययोग्यतायाः महत्त्वे सत्युद्भूतरूपवत्वेनावच्छेदात् मानसप्रत्यक्षद्रव्यस्य चात्मत्वे- नैव योग्यत्वादित्यर्थः । बुद्धिवदिति । परबुद्धिवदित्यर्थः । अध्यक्षता परं प्रतीत्यर्थः । विपरीतेति । परमाणुर्यदि प्रत्यक्षद्रव्यं स्यान्महान् स्यादिति प्रतिकूलतर्क इत्यर्थः । तदेव विशदयति - चक्षुरादीनामि[ ति? ] नयनादीति ! योगजधर्मसाचिव्यापादिसाक्षात्कारस्यापि मनसैव जन- न्याय लीलावती प्रकाशविवृतिः परमाणुर्यदीति । अत्र द्रव्यमापादकविशेषणम् | मा स्यादिति पाठे