पृष्ठम्:न्यायलीलावती.djvu/५४८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

म्यायलीलावतीकण्ठाभरण-सविवृतिप्रकाशोद्भासिता ४७३ त्वात् | नानापुरुषाध्यक्षत्वे असर्वज्ञत्वात् । अन्यथा प्रतिबन्धा भावात् । वेदनतारतम्यस्य कचिज्ञ एव विश्रान्ते | अपकर्षता- रतम्यादेकमात्रज्ञतापत्तेश्च | मनुष्यादिवत् कचित्तुरगादिज (१)- तिभेदेऽपि सार्वज्ञ्यापत्तेः । भावनाभ्यासस्य च भाव्यविषयत्वेन सर्वविषयज्ञानजनकतानुपपत्तेः । तथैव शक्तेरवसायात् । न्यायलीलावतीकण्ठाभरणम् - साक्षात्कारोऽपि मानस एव स्यादिति भावः । सिद्धासहकारि तथा च विपर्थ्ययो यथा तथा योगजधर्म्मसहकारितया विपर्ययः स्यान्न तु प्रमेत्याह - स्वप्नस्य चेति । स्मृतानां पदार्थानां विपर्थ्यासः स्मृतिविषये वा विपर्थ्यास इत्यर्थः । परमाण्वादयः प्रत्यक्षा इत्यत्र पृथ्वनुमाने साध्यं विकल्पतो दूषयति - नानेति । तथा च न सार्वइय- मित्यर्थः । अन्यथेति । यद्यत् प्रमेयं तदेव पुरुषाध्यक्षमिति प्रतिव न्धासिद्धिरित्यर्थः । वेदनतारतम्यं परिमाणतारतम्यवत् क्वचिद्विश्रान्तं तथा च तत् यत्र विश्रान्तं स्यात् स एव योगीत्याशङ्ख्याह - वेदनेति । सिद्धसाधनमुक्त्वा प्रतिकूलतर्कमाह - अपकर्षेति । तर्कपराहतान्तरमाह- मनुष्यादिवदिति | सामग्रीतौल्यादिति भावः । संस्कारवशात् परोक्षमध्य. परोक्षं स्यादिति सार्वयमाशयाह - भावनेति । तथैवेति । संस्कारस्थ स्वविषयमात्रे ज्ञानजननशक्तेरवसायादित्यर्थः । तारतम्यविश्रान्तौ प्र न्यायलीलावतीप्रकाशः - नादित्यर्थः | स्वप्नस्य चेति । स्मृतानां पदार्थानामसंसर्गाग्रहरूपत्वादि- त्यर्थः । न त्वयथार्थे स्मृतित्वं स्मरामीति तदनुव्यवसायापत्तेः । तथा च प्रमामात्र एव मनसो वहिरस्वातन्त्र्यमिति भावः । मेयत्वाच्च परमाणूनामध्यक्षत्वमात्रं वा साध्यं एक पुरुषैकाध्यक्षविषयत्वं वा । आद्ये दूषणमाह - नाति । नानापुरुषाध्यक्षत्वेनार्थान्तरान्नैकपुरुषा ध्यक्षत्वसिद्धिरित्यर्थः । अन्त्ये – अन्यथेति । एक पुरुषैकाध्यक्षविषयत्वे साध्य इत्यर्थः । वेदनतारतम्यं क्वचिद्विश्रान्तं तारतम्यत्वादित्यत्र सिद्ध- साधनमित्याह – वेदनेति । प्रतिकूलतर्कपराघातश्चेत्याह - अपकर्षति । सर्वविषय कैकज्ञान कारणानुपपत्तिमाह - भावनेति । तथैवेति । भाव्यमात्र- ( १ ) ०व करितु | C