पृष्ठम्:न्यायलीलावती.djvu/५४९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

स्थायलीलावती कर्तुः कर्तव्यतातिशय दर्शनाददेहिवदेहिनोऽपि सर्वकर्तृतापत्तेः। का यव्यूहादिकृतेरप्रामाणिकत्वात् । तथाविधादृष्टवशादेवोपपत्तेः । अ मुक्तस्यैव वा कर्मणः क्षयाद्विपरीतनिश्चयाच्च । ज्ञानजातीयं कति न्यायलीलावतीकण्ठाभरणम् - - तिकूलतर्कान्तरमाह- कतुरिति । कृतितारतम्य विश्रान्तौ कस्यचित् स वकर्तृत्व स्यादित्यर्थः । ननु कायव्यूहमन्तरेण यावत्यष्टानि तेषां च तत्तच्छरीरावच्छेदेन भोगं ज्ञात्वा कायव्यूहानुष्ठानमपि कथं स्था. दित्याशङ्ख्याह – कायव्यूहेति । अप्रामाणिकत्वादिति । अदृष्टानां तत्त्वज्ञान. नाश्यतया न भोगार्थ कायव्यूह इत्यर्थः। ननु तारतम्य नो वै शरीरानि- बद्धनियमे शुरेत्यादिग्मृतिः (?) वादरसौभरिप्रभृतीनां च कायव्यूहम- सिद्धिश्च कथं स्यादित्यत आह - तथाविधेति। तथा विधत्वं' कायव्यूहनि. र्वाहकत्वम् | अथ वा कायव्यूहस्याचिरेण भोगप्रयोजकं (कत्वं ? ) तच्च नास्ति कर्मणः तत्त्वज्ञाननाश्यत्वात्। तथा च स्मृति: "ज्ञानाग्निः सर्व कर्म्मानि भस्मसात कुरुतेऽर्जुन" इत्याह - अभुक्तस्यैवति । विपरीतति । ज्ञानस्यासर्वविषयत्वनिश्चयादित्यर्थः । एतदेव उपपादयति - ज्ञान- - न्यायलालावतीप्रकाशः विषयकज्ञानजनकत्वेनेत्यर्थः । ज्ञातुर्ज्ञातव्य/तिशयदर्शनाद्यदि सार्व्वइयं साध्यते तत्र प्रतिवन्दिग्रा ( मा ? ) ह - कनुरिति । अदेहिवदिति । त्वदभिमते. श्वरवदित्यर्थः । सार्वश्यं विनापीति शेषः | स्वात्मनो बहून्यदृष्टानि साक्षात्कृत्य भोगेन तत्क्षयार्थे योगी कायव्यूहे (हं?) करोति अदृष्टसाक्षा- कारश्च न सार्वज्ञ विनेति योगिसिद्धिरिति यदि ब्रूयात्तत्राह- कायव्यूहेति । अथागमक्ष (स्त ? ) त्र मानं तत्राह - तथा विषे (ध ? )ति । तपःप्रभा- वादपीति द्रष्टव्यम् । किञ्च कर्मफलभोगार्थ काययोगपद्यं (१) कर्म चाइत्तफलमेव तत्त्वज्ञानाद्विनश्यतीत्याह-- अभुक्तस्यैवेति । विपरीत निश्च यमेव स्फुटयति - ज्ञानजातीयमिति उकारवेति (?) चक्षुरादीनां शक्तिविर न्यायलीलावतीप्रकाश विवृतिः परमाणुईव्यमिति पक्षनिर्देशो बोद्धयः । प्रमायामिति । अनुभव इत्यर्थः । मनुष्यादिवदिति मूलम् । यद्यपि योगिनः करितुरगादिशरीरोपग्रहाद श्रेष्टापत्तिस्तथापि तच्छरीरावच्छेदेन सार्वइयं नेष्यत इत्यभिसन्धा- नेनापाततः तदेवापाद्यम्। इष्टापत्तिमाशङ्क्याह- सार्वज्ञ विनापीति । तथा ( १ ) स्वीकरणीयामिति शेषः ।