पृष्ठम्:न्यायलीलावती.djvu/५५३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४७८ न्यायलीलावती साध्याव्यावृत्तत्वेन (५) धूमे आर्द्रेन्धनवदनुपाधित्वात् । प्रत्यक्ष तायां दृष्टान्वयव्यतिरेकत्व प्रयुक्तं प्रत्यक्षत्वम्, अणूनां तु नियमे नास्मदादीनां परोक्षत्वमिति चेत्, न, परबुद्ध्यादेर तथा भावे. ऽपि प्रत्यक्षत्वात् । परप्रत्यक्ष प्रति परस्यान्वयव्यतिरेका विति चेत, तुल्यं योगिप्रत्यक्षत्रेऽपि | बुद्धित्वात्तत्रानुमानमिति चेन्न, अणुष्वपि पृथिवीत्वादे: सच्चात् । एक पुरुपापरोक्षबोधविपयत्वं च कल्पनालाघवात् । प्रतिवन्धस्य चानुपाथित्वेन निश्रयात् । रस न्यायलीलावतीकण्ठाभरणम् पक्ष एवासाधनव्यापकत्वं न हि तत्र काचित् प्रत्यक्षसामग्रीति श ङ्कते - प्रत्यक्षतायामिति । योगिन एव तत्रापि प्रत्यक्ष सामग्रीत्यभिप्रेत्य साधनव्यापकता प्रचयितुं दृष्टान्तमाह - परेति । चैत्रबुद्धौ मैत्रस्य प्रत्यक्ष सामग्यभावेऽपि प्रत्यक्षत्वादित्यर्थः । मैत्रप्रत्यक्षसामग्न्येव -- स्त्रबुद्धावस्तीति न च तत्र तद्विरह इत्यत्राह - परप्रत्यक्षमिति । आकाश मुद्घाट यति - तुल्यमिति । परमाणोरपिन योगिप्रत्यक्ष सामग्रीविरह इति साधनव्यापकत्वमेवोपाधिरित्यर्थः । अनुमानमिति । प्रत्यक्षसामग्या इति शेषः | नानापुरुषमादाय यत् सिद्धसाधनमुक्तं तत्राह - एकेति । लाघवाख्यत कपष्टम्मादेक पुरुषवेद्यत्वमेव सर्वेषां सेत्स्यतीति सर्व इसिद्धिरित्यर्थः प्रतिबन्ध सामग्यामाह - प्रतिबन्धस्येति । परमाण्वचा. क्षपत्वे रसेऽपि चाक्षुषत्वप्रसङ्गं परापादितं दूषयति - रसेति । रसोऽपि रूपादिषु मध्ये रूपमात्र ग्राहकेन्द्रियग्राह्यः स्यादित्यापादने व्याघातः रूपग्राहकसापेक्षेन्द्रियग्राह्यः स्यादित्यत्र रूपग्राहक मनः सापेक्षरसनं न्यायलीलावतीप्रकाशः धित्वमित्यर्थः । अतथा (भा ? ) वेऽपीति | अन्वयव्यतिरेकादर्शनेपी. त्यर्थः । एकपुरुषेति । एक पुरुषाध्यक्षत्वेन व्याप्त्यभावेऽपि ला. घवसाचिव्यादनुमानादेव तत्सिद्धि: सामान्यग्राहकमानस्यापि स हकारिंविशेषाद्विशेषबोधकत्वात् । न चातुमितौ लाघवसाचिये मा. नाभाव: क्लृप्तकारणादेव तदुपपत्तेरिति वाच्यम, यत्र प्रमाणे लघु गुरुविषयत्वसम्भवस्तत्र लघोरेव विषयत्वमिति प्रमाणस्वभावात् ( १ ) साध्यान्यातत्वेन |