पृष्ठम्:न्यायलीलावती.djvu/५५४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

म्यायलीलावतीकण्ठाभरण- सविवृतिप्रकाशोद्भासिता ४७९ चाक्षुषतायां रूपैकानियतेन्द्रियवेद्यत्वे व्याघातात् | अनियतवे यत्वे (१) वेदकस्य मनस्त्वेन सापेक्षत्वानपेक्षत्वाभ्यां (२) सिद्ध सानघातात् | तैजसेन्द्रियवेद्यत्वे रूपैक नियमान् | तैजसवा- बगतौ व्याघातात् । देह (३) व्यूहमाथित्य सर्पादावनापत्तेः । न्यायलीलावतीकण्ठाभरणम् ग्राह्यत्वेन सिद्धसाधनं निरपेक्षत्वे च व्याघाताच्च न हि निरपेक्ष मनो वहिः प्रवर्त्तत इत्याह - अनियतेति । तैजसेन्द्रियत्वं च रसाग्राहकत्वे सति रूपग्राहकत्वेनैव सिद्धमतस्तद्वेद्यत्वापादने व्याघात इत्याह- तैजसेति । करितुरगादावपि सार्वश्वमापादितमिष्टापत्त्या परिहरति- कायव्यूहेति । तत्कर्म्मभोगार्थ योगिनस्तच्छरीरोपग्रहस्यापि सम्भ वाद् यत् प्रत्यक्षं तत् सर्वेषामपि प्रत्यक्षमित्यत्र व्यभिचारमाह - न्यायलीलावतीप्रकाशः फलवलेन तस्यापि सहकारित्वादित्यर्थः । नन्वनुपाधित्वात्प्रत्य. क्षस्येव चाक्षुषप्रत्यक्षत्वस्यापि प्रमेयत्वं व्याव्यमिति रसोऽपि चाक्षुषः स्यादित्यत आह - रसेति । अनियतेति । यद्यनियतेन्द्रि यग्राह्यो रसस्तदा रुद्राहक (?) मनियतार्थग्राहकतया मनः स्यात् तथा सति यदि तच्चक्षुरादिसापेक्षं तदा सिद्धसाघनं तन्निरपेक्षत्वे च स्वातन्त्यूप्रसङ्गान्मनस्त्वव्याघात इत्यर्थः । रूपैकेति । गन्धादिषु रूप. स्यैव व्यञ्जकत्वादालोकवदित्यत एव तैजसत्वसिद्धेरित्यर्थः करितु रगादिभेदेऽपीति दूषयति- देहव्यूहमिति कायव्यूहदशायां सर्पश न्यायलीलावती प्रकाशविवृतिः देशवृत्तित्वेऽपि पक्षधर्मत्वाविरोधात् । प्रत्येक मिति | रूपवत्वमात्रं मह त्वमात्रं चेत्यर्थः । यद्यपि गुणत्वावच्छिन्नसाध्यव्यापकं महत्त्वसामा. नाधिकरण्यं प्रत्यक्षत्वावच्छिन्न साध्यव्यापकं महत्त्वं वहिर्द्रव्यावच्छि नसाध्यव्यापकं च रूपवत्त्रमुपाधिरविकल एव परमाणुरसादीना माकाशादि ( दी ? ) नां च पक्षत्वात्तथाप्यागमरूपविपक्षबाधकेन घेतोः : साध्यव्याध्यतयोपाधेः साध्याव्यापकत्वमिति भावः । नात्रेति । ( १ ) अनियतेन्द्रियवेव्यत्वे । ( २ ) सापेक्ष त्वनिरपेक्षत्वाभ्या | ( ३ ) कायव्यूद्देति कण्ठाभरणसम्मतः पाठः |