पृष्ठम्:न्यायलीलावती.djvu/५५५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

न्यायलीलावती परेच्छा च स्वतोऽप्रत्यक्षेति परस्यापि प्रत्यक्षता (५) न स्यात् । भावे वा परमानसतावत् परचाक्षुषतापि स्यात् । अप्रत्यक्षा अणव इत्यत्र तु अस्मदादियोगिविशेषापेक्षया सिद्धसाधनव्याघातात् | प्राणित्वादेः कीर्तितुतातिदृष्टान्तहतत्वात्।" द्वे ब्रह्मणी वेदितव्ये," "पश्यत्यचक्षु" रित्याद्यागमसम्भवाच्चेति निराकुलमेतत् । [इति] योगी ॥ न्यायलीलावतीकण्ठाभरणम् परेच्छेति । परोक्तं सत्प्रतिपक्षमपाकरोति - अप्रत्यक्षा इति । योगी न सर्वज्ञः प्राणित्वादहमिवत्यादौ कीतितुतातितादयोन स्वदर्शनामिशः प्राणित्वादहमिवेति दृष्टान्तप्रतिहतत्वादित्याह- - प्राणित्वादरिति । द्वे ब्रह्मणो इति । वेदनमिह साक्षात्कारो विवक्षितो न तु योगिभिन्नस्य शरीरा दिभिन्नत्वेन स्वात्मपरात्मसाक्षात्कारः सम्भवति । पश्यत्यचक्षुरिति चेश्वरसार्वश्यसाधकमित्यत उपदर्शित विपरीतागमविरोधः परितः । न्यायलीलावतीप्रकाशः - शेरवानपि सर्वज्ञ इतीघ्रापादानमित्यर्थः । ननु परमाणूनां योगि प्रत्यक्षत्वेऽस्मदादिप्रत्यक्षता स्यांदेकप्रत्यक्षस्यापरेण साक्षात्कर- णादित्यत आह - परेच्छा चति । अप्रत्यक्षा इति । अम्मदाद्यप्रत्यक्षत्वे सा. ध्ये सिद्धसाधनं योग्य प्रत्यक्षत्वे साध्ये प्रतियोग्यप्रसिद्धि प्रसिद्धो वा धर्मिग्राहकमानबाध इत्यर्थः । प्राणित्वारिंति। विवादाध्यासितो न सर्वशः प्राणित्वादित्यत्र च कीतिर्न बौद्धमताभिज्ञः प्राणित्वादहमिवेति प्र तिदृष्टान्तप्रतीघात इत्यर्थः । द्वे ब्रह्मणी इति । अत्र श्रौतानुमानिकपर. न्यायलीलावतीप्रकाशविवृतिः यद्यपि गुणादिसाधारणपक्षतायामपि द्रव्यत्वस्य पक्षधर्मत्वमविकल- मित्येतदुपन्यासो व्यर्थः । अन्यथा उपाधेरनित्यदोषतापत्तैस्तथापि गुणादीनां पक्षत्व तत्र उपाधिव्यतिरेकेण द्रव्यत्वावच्छिन्न प्रत्यक्ष व व्यतिरेक साधनेऽपि नाप्रत्यक्षत्वसिद्धिर्विशेषणव्यतिरेकेणैवान्यथा. सिद्धेरिति सत्प्रतिपक्षोत्थापकत्वव्यतिरेकप्रदर्शनाय तदुपन्यास इति भावः । साध्यव्यापकत्वमित्यत्र दोष इति शेषः । सिद्धसाधनमिति । ( १ ) ०त्यक्षा स्यातू० । त्यक्षा न स्यात् ।