पृष्ठम्:न्यायलीलावती.djvu/५५८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

न्यायलीलावतीकण्ठाभरण-सर्विवृतिप्रकाशोद्भासिता ४८३ मिलापरूपं नयनस्य गोचरः । न च स्मृतेस्तत्ता चिह्नभूता | अनुभुतवर्णस्मृतौ हरिहरादिस्मृतौ च व्यभिचारात् । न च शब्द- संसर्गः प्रत्यक्षगोचरः ततो जातिसंसर्गमावमत्रावभासते, न्यायलीलावतीकण्ठाभरणम् न चेति । अत्रेति । सविकल्पक इत्यर्थः। तर्हि घटोऽयमिति कथं वाचकपुर • न्यायलीलावतीप्रकाशः शब्दयोजनात्मकसविकल्पके तत्रैव प्रत्यभिज्ञाने भासत इत्यर्थः । न च शब्देति । वाच्यत्वलक्षणः संसर्ग इत्यर्थः । वाच्यत्वस्यातीन्द्रिय- त्वाभ्युपगमात् न व्यवहारः तस्य विकल्पक साध्यत्वात् । अथ गौरिति प्रत्यक्ष विशेषणज्ञानजन्यं जन्यविशिष्टज्ञानत्वात् अनु. मितिवत् दण्डीति प्रत्यक्षं न दृष्टान्तः विशेषणविशेष्यतत्सम्बन्धानां यु. गपज्ज्ञान सामग्रीत एव तदुत्पत्तौ दण्डज्ञानजन्यत्वासिद्धेः । ननु विशेष णविशेग्यज्ञानसामग्रीतः साकाङ्क्षोभयविषयक मेकं ज्ञानं विशिष्टज्ञानं तत्र प्रत्यक्षे योग्येन्द्रिय सन्निकदनुमितौ पक्षधर्मताबलाड्यापकताव च्छेदक प्रकारेण शाब्दे योग्यतादिवशात् पदार्थतावच्छेदक रूपेणापूर्व. मेव विशेषणं भासते उपमितावप्येवमेवेति न क्वापि विशेषणज्ञानं जन. कम् | न च प्रत्यभिज्ञायां तत्रानुभवस्तथा संस्कारस्यानुत्पादादनुद्रोधा. त्प्रत्यभिज्ञानुत्पादेनोबुद्धः संस्कार एव प्रत्यासत्तितया विशेषण. मानार्थमिन्द्रिय सहकारी भ्रमो विशिष्टज्ञानमेव न भवतीति । मैवम् । साध्यप्रसिद्धिपदार्थोपस्थितिवाच्यत्वज्ञान तत्तानुभवानामनुमित्यादि हेतुत्वात् साध्यप्रसि ज्यादिकं विनाऽनुमित्यादेरभावात् साध्यादिकं च विशेषणमिति तज्ज्ञानमनुमित्यादिहेतुः । न च परोक्षत्वमुपाधिः प्रत्य. भिज्ञायां साध्याव्यापकत्वात् नापि विशिष्टविशेषणकत्वं पक्षेतरत्वात् । अत्र वदन्ति - स्मृतिवत् पूर्वानुभवस्थापि संस्कारद्वारा जनकत्वात् न्यायलीलावतीप्रकाशविवृतिः यथाऽभेदाभिमानस्तथाऽत्रापीत्यर्थः । वाच्यत्वलक्षण इति । न च पूर्वश ब्दयोजनात्मक इत्यादिना स्वोक्तेन विरोधः । एतस्य मतान्तरत्वात् तथा चोपनीतं वाच्यत्वं चाक्षुषे चेतसि भासत इत्येकम्, तटस्थज्ञ (ना- न्तरविषय एतदुव्यावर्त्तकमित्यपरम्, आनुमानिकमेव तदित्यभ्य (न्य १) दिति मतत्रयमेत्रात्रेति भावः। ननु ज्ञानत्वमिति (?)। तथा व विभागो व्याहत