पृष्ठम्:न्यायलीलावती.djvu/५५९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

न्यायलीलावती शब्दस्तु व्युत्पत्ति समयावगतोऽत्र स्मर्यते । न च तस्य केनचि त्संसर्गोऽवभासते, यदि तु तत्संसर्गोऽवभासत इति मन्यसे त न्यायलीलावतीकण्ठाभरणम् - सरमित्यत आह Srkris (सम्भाषणम्) शब्दस्त्विति । अत्रेति | अनुभवात् पूर्वमित्यर्थः । अनु. भासमानः शब्दसंसर्गः कथमध्यपलप्यत इत्यत आह - यदि त्वति । - न्यायलीलावतीप्रकाशः सिद्धसाधनम् । नच विशिष्टानुभवत्वेनाव्यवहितविशेषणज्ञानजन्यत्वं साध्यं प्रत्यभिज्ञ / वत् स्मृत्यैवोपपत्तेरप्रयोजकत्वाच्च । नापि तन एवा. व्यवहितविशेषणानुभवजन्यत्वं साध्यं प्रत्यभिज्ञायां व्यभिचारात् । न चतत्कालोत्पन्नरूपविशिष्ट प्रत्यक्षे संस्काराभावेन स्मरणाभावात् पक्ष- धर्मताबलविकल्पकसिद्धावन्यत्रापि सामग्री तौल्यात्तत्सिद्धिः तत्र हि शुक्लत्वादिविशिष्टवैशिष्ट्यज्ञानं वा अविशिष्टतद्विशिष्टज्ञानं वा । आये शुक्लत्वादिजातिस्मरणं प्रथमवस्तुतस्तद्विशिष्टज्ञानं ततः शु. क्लत्वादिविशिष्टवैशिष्टयज्ञानं द्रव्य इति नानुपपत्ति: । अन्त्ये त्व- ननुभवः शुक्लत्वादिधीविलक्षणशुद्ध रूपादिबोवाऽननुभवात् । अथ जागराद्यविशिष्टानुभवे संस्कारद्वारा न पूर्वविशिष्टानुभ वः, तज्जन्यविशेषणस्मरणं वा कारणं भवति, उद्बोधकं विना संस्का- रस्य स्मरणे विशिष्टज्ञाने वा सामर्थ्याभावादित्युबोधकं वक्तव्यम् । उद्बोधकं चाम्यत्र ज्ञानं दृष्टमिति तदेव वाच्यम् | न च तद्विशिष्टज्ञान. मेव तत्रापि विशेषणज्ञान। पेक्षायामनवस्थानादित्यालोचनासद्धिः तं- त्र जागरकारणानन्तरं संस्कारोद्वोधोस्तीति तस्यैव क्लृप्तत्वेन त. कारणत्वात् । अत एव न संस्कारोद्वोधे नियतो हेतुरित्यभिसन्धाय सदृशाऽदृष्टचिन्ताद्याः स्मृतिवीजस्य बोधका इत्याहुः । अत्रास्मत्पितृ चरणाः - प्राथमिकं गौरिति प्रत्यक्षं जन्यविशेषणज्ञा- नजन्यं जन्यविशिष्टज्ञानत्वात् अनुमितिवत् तज्जन्मनि तेन गोत्वस्या ऽननुभवान्न तत्र स्मरणसम्भवः । न चाद्यप्रवृत्तिवत् प्राग्भवात्संस्कारा. द्रोवस्मरणं तत्र जीवनादृष्टेन संस्कारस्योदोधनादिबोधनादिह तु . न्यायलीलावतीप्रकाशविवृतिः इति भावः । स्मृत्यैवोपपत्तरिति । स्मृतिश्च क्वचिदैहिकात क्वचिश्चजन्मा- म्तरीयात् संस्कारादिति भावः | अतः परमन्यत्रैव व्याख्यातमि.