पृष्ठम्:न्यायलीलावती.djvu/५६१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४८६ न्यायलीलावती नानुभवात् । न चैतदौपाधिकम् | अनुभवस्य तदानीमतीत- त्वात् । न चैतत्तद्भेदाग्रहनिबन्धनम् । अनागतोपाधिभेदाग्रहादनुभ- वेsपि वैपरीत्यापत्तेः । अत्राभिलापसम्भेदो (१) बाधकमि (इ ? ) ति चेत्, न, तत्रापि तद्विरहस्य तुल्यत्वात् । तत्सन्दिग्धव्यतिरेकमि- ति चेतुल्यम् । तादृशं यदि नेन्द्रियजं तदेन्द्रियजमेव न स्यात् । तस्य चार्थाधिपत्यानेयमात्तज्जन्यम् । तच्च सिद्धमित्यध्यक्षं सवि. न्यायलीलावतीकण्ठाभरणम् कल्पक मेवार्थ समुत्थमतस्तदेव साक्षात्कारि तस्य साक्षात्का रित्वं यत्तत्समनन्तरप्रत्यये सविकल्पके भासते जवाकुसुमलौहि त्यमिव स्फटिक इत्यत आह - न चेति । 'अनुभवस्य' निर्विकल्पकस्य । 'तदानीं' सविकल्पकोत्पत्तिकाले । ननु निर्विकल्पके मेदाग्रहात् सवि. कल्पके साक्षात्त्वव्यवहारः स्यादित्यत आह - न चेति । तर्हि निर्विक ल्पक एव यत् साक्षात्वं तत् सविकल्पकौपाधिकमस्तु विनिगमना विरहादित्याह -- अनागतेति । सविकल्पकं यदि साक्षात्कारि स्यादमि. लाप संसर्गयोग्यप्रतिभासि न स्यादनुमानादिवदिति शङ्कते - अत्रेति । निर्विकल्पकं यदि प्रत्यक्षं स्यादभिलापससर्गरहितं न स्यादिति न्यायलीलावतीप्रकाशः यत्र तत्तथा वैशिष्ट्यविषयकं ज्ञानमित्यर्थः । ननु तत्र प्रत्यक्षमनादि- वासनादिसमुच्छ्रित तयाऽर्थेन्द्रिया जन्यत्वादित्यत आह - तच्चेति । सा. क्षात्कारित्वेनानुभवात् वैपरीत्यस्यापि सुवचत्वादित्याह-न चेति । ननु तत्र बाधकात्तथा तत्र शब्दयोजनानिर्भासाच्छन्दस्य च व्यक्तौ- सङ्केतहाभावाजा ती सङ्केतात्तस्याश्चालीकत्वेन तद्विषय तयौपा. धिकत्वादित्याह — अत्रेति । जात्यादेः पारमार्थिकत्वान्नैवमन्यथा निर्विकल्पकं नाध्यक्षं शब्द संसर्गरहितत्वादित्यपि स्यादित्याह- न्यायलीलावतीप्रकाश विवृतिः - वैशिष्ट्यविषयकमिति । अत एव तस्येन्द्रियार्थजन्यत्वमिति | साक्षात्का रित्वादेव तदुभयजन्यत्वमत एव च सामान्यादिकं परमार्थसदिति ( १ ) ०१ससर्गों बा० |