पृष्ठम्:न्यायलीलावती.djvu/५६३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४८८ न्यायलीलावती विषयभेदः । एकस्यैवानुमानस्य [परनये] परोक्षापरोक्षाविषयक. त्वात् । नापि कारणभेदः । तस्यैवानुभवस्य स्मृतिजन्यत्वात् । न च विरुद्धधर्मासंसर्गवतोऽपि भेद इति । समाप्तमध्यक्षम् । - न्यायलीलावतीकण्ठाभरणम् परोक्षत्वा परोक्षत्वे तु जाती तत्र प्रत्यभिज्ञानस्या परोक्षमात्रत्वार्थ. विरुद्धधर्माध्यास इति भावः । नापि विषयभेद इति । पारोक्ष्यापारोक्ष्यल क्षणो विषयभेदोऽपि न प्रत्यभिज्ञाभेदप्रयोजक इत्यर्थः । एकस्या एवानुमितेः स्वप्रकाशलये पारोक्ष्यापारोक्ष्यदर्शनादित्याह- एकस्येति । ननु संस्कारेन्द्रियाभ्यां जनितत्वात् प्रत्याभशा भिद्यत इत्यत आह - नापीति | संस्कारजन्यत्वमत्रासिद्धं स्मृतेरेव तत्र जनकत्वात् न का. रणभेदो भेदकः किन्तु सामग्रीभेदः, स चात्र नास्तीति भावः । एव. कारो भिन्नक्रमः | स्मृतिजन्यत्वादेवेत्यर्थः । तथा च स्मृत्यनुभव. रूपं न ज्ञानद्वयं न वा नरसिंहाकारमेकं किन्त्वनुभवरूपमेकं ज्ञानं प्रत्यभिज्ञानमित्याह - न चेति । न्यायलीलावतीप्रकाशः मग्निमानिति परोक्षायामनुमिता विदन्ता न भासतेति जातिभेदी ते वाच्ये तयोश्च प्रत्यभिज्ञानेन वृत्तिरित्यर्थः । ननु पारोक्ष्यापारोक्षयरूपो विषयभेदः प्रत्यभिज्ञानभेदकः स्यादित्यत आह - नापीति ज्ञानभेदप्रयो. जक इति शेषः । एकस्येति । ज्ञानस्वप्रकाशवादिभिरेकस्यैवानुमित्यादेः स्वात्मनि प्रत्यक्षत्व विषये चाप्रत्यक्षत्वेऽपि भेदाऽनङ्गीकारादित्यर्थः । ननु संस्कारेन्द्रिययोः पृथगेव शानजनकत्वात् कथं ताभ्यामेकं ज्ञानं जन्यमित्यत आह - नापीति । तस्यैवेति । प्रत्यभिज्ञानं न संस्कारजन्यं स्मृतित्वापत्तेः स्मृतित्वे संस्कारजन्यत्वस्यैव तन्त्रत्वात् किन्तु तत्ता स्मृतिसहकृत सामग्रीजन्यम् । तथा च न कारणभेदमात्रात्कार्यभेदः किन्तु सामग्रीभेदात्स चासिद्ध इत्यर्थः । न्यायलीलावतीप्रकाशविवृतिः षयत्वमेव यदि ज्ञाने आरोपापेक्षं तदेत्यर्थः । 'पारोक्ष्यापरोक्ष्यरूप:' प्रत्यक्षाप्रत्यक्षरूप इत्यर्थः । ननु तथापि तत्तास्मृतेस्त ताज्ञानमात्र. जनकत्वात् कारणभेदोऽस्त्येवेत्यत आह -तथा चेति । स्मृतेरिन्द्रिय