पृष्ठम्:न्यायलीलावती.djvu/५६४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

बायलीलावतीकण्ठाभरण- सविवृतिप्रकाशोङ्गासिता ४८९ अथाऽनुमानमुच्यते । तदसिद्धमध्यक्षस्यैवानुमानत्वात् । तथा हि तत्प्रतिबन्धसिद्धिसापेक्षम् । स च न सामान्ययोः, यत्र धूमत्वं यद् ( १ ) धूमत्वमिति वा नियमायोगात् । व्यक्त्यन्त भवन नियतत्वे कतिपयान्तर्भावेन सर्वोपसंहारवती व्याप्तिः । - न्यायलीलावतीकण्ठाभरणम् तदसिद्धमिति । अध्यक्षाद् भिन्नत्वेनानुमानासिद्धमित्यर्थः । नच सिद्ध्यसिद्धिव्याघातः, अनुमानस्य सिद्धन्वात् अध्यक्षभेदेन विवा. दात् अध्यक्षादनुमानस्य भेदे सामग्रीभेदो न तन्त्रं तस्यैवासिद्धे रित्याह — तथा हाँति । सामान्ययोरिति । धूमत्ववाहित्वयोरित्यर्थः । यत्र धूमत्वं तत्र वह्नित्वं यदूधूमत्व तद्ब्रह्नित्वमिति वैयधिकरण्यभेदा. भ्यां न सम्भवतीत्याह-यन्त्रेति । सामान्य द्यावाच्छिन्न व्यक्तीनां प्रति बन्धमाक्षिपति – व्यक्तीति । सन्निहितव्यक्ति मात्रगत व्याप्तिग्रहे सर्वोप. संहारेण व्याप्तिग्रह इति सिद्धान्तव्याकोपः पक्षघमें व्याप्यमहो न्यायलीलावतीप्रकाशः - तदसिद्धमिति । इन्द्रियभिने प्रमित्वसाधारणकारणत्वं नास्तीत्यर्थः । अतो न सिद्ध्यसिद्धिव्याघातः। 'सामान्ययोः'धूमत्ववह्नित्वयोरित्यर्थः । यत्रेति । तत्राग्नित्वं तदभित्वमिति यथायोग्यं पूरणीयं धूमत्वस्य धूमाधिकरणत्वात् वाहत्वस्य बहुपधिकरणत्वानेशो नियम इत्यर्थः । ननु जात्योर्न नियमः किन्तु तदालिङ्गिनव्यक्त्योरिति नोकदोष इत्य. त आह–व्यक्त्यन्तर्भाव इति । तथा च यदिसन्निहितवर्त्तमानव्यक्त्योरेव व्यातिप्रहस्तदा पक्षधर्मधूमस्य व्याप्सिर्न गृहीतेति न ततोऽनुमितिरि न्याय लीलावती प्रकाशविवृतिः सहकारितयैव जनकत्वान्न सामग्रीभेदः इत्यर्थः। तदुक्तं मूले तस्यैवेति । न त्वन्यस्यस्य तेन सामग्रीभेद स्यादिति भावः । प्रमित्यसाधारणेति । न च भूयोऽवयवेन्द्रिय सन्निकर्षादौ तत्सत्वादु बाघः, असाधारणकारण- पदेन करणत्वस्याभिधानात् । न च शरीरादिसाधारणकारणमादाय विरोधः, इन्द्रियपदन प्रत्यक्षकरणाभिधानात् यत्तु इन्द्रियपदं यथा. श्रुतमेवासाधारणकरणत्वं च निषेध्यमतो न शरीरादिकमादाय बाध इति तदयुक्तम् । गोलकादिकमादाय बाघतादवस्थ्यात् । तत्राग्नित्वं ( १ ) यच धू० |