पृष्ठम्:न्यायलीलावती.djvu/५६५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

स्थायलीलावती समग्रान्तर्भावस्थ (१) तु देशकालव्यवधेर्भूयोदर्शनानां तत्राभावे न्यायलीलावतीकण्ठाभरणम् त्यर्थः | सामग्यभावात् सर्वोपसंहारेण व्याप्तिग्रहो न सम्भवती त्याह -समप्रेति । 'अत एव' सामन्यभावादेव । 'न चोभयोः' न जाति. न्यायलीलावतीप्रकाश: ४९० त्यनुपपत्या सर्वतज्जातीययोर्व्याप्तिग्रह इति सिद्धान्तव्याघात इत्यर्थः । सर्वतजातीयव्याप्तिग्रहश्च न सम्भवति तद्धेतोरभावादित्याह-समझे. न्यायलीलावतीप्रकाशविवृतिः तदशित्वमिति पूर्वदले बहित्वस्य वहपधिकरणत्वादित्युत्तरदले पाठः काचित्कः स सुगम एव । क्वचिन्तु तत्राग्नित्वं तत्राग्निरिति वश्च पर्व- ताधिकरणत्वादिति पूर्वापरदलयो: पाठस्तत्र च मूलस्थं न सामा. न्ययोरित्युपलक्षणम् । सामान्य व्यक्कोरित्यपि द्रष्टव्यम् । एवं यत्र धूमत्वं यद् धूमत्वमित्युपलक्षणं यत्र धूमो यो धूम इत्यपि द्रष्टव्यम् i एवञ्च प्रकाशेऽपि तत्राभित्वं तत्राग्रित्वं तत्राग्निरित्युपलक्षणं तदग्नि- त्वमित्यपि बोध्यम् । एवं यत्र धूमत्वं तत्राग्नित्वं यत्र घूमत्वं तत्राग्निः, यदूधूमत्वं तदग्नित्वं यत्र धूमस्तञाग्नित्वं, यो धूमस्तदारीत्व. मिति पश्च नियमप्रकाराः शङ्काविषयाः । अत एव यथायोग्यमिति युज्यते । पूर्वपाठे यथासंख्यमेवान्वये तदुपादानव्यर्थतापत्तेः । अत्र तु पाठे यथासम्भवं व्याप्यव्यापकदलयोः पूरणीयमित्यर्थः । अत्र च द्वितीयनियमनिरासः साक्षात्, अन्यनिरासश्च उपलक्षितहेतुभिः । तथा हि धूमत्ववाहेत्वर्योवैयधिकरण्यप्रदर्शनेन प्रथमतीययोर्धूमाग्नि- त्वयोवैयधिकरण्यप्रदर्शनेन चतुर्थपञ्चमयोर्निरास इति भावः । ननु न साक्षात्सामानाधिकरण्यं जात्योर्नियमं ब्रूमः, किन्तु व्वक्त्यो रेव सामानाधिकरण्यं परम्परासम्बद्धमित्याशयं मूलस्याह-ननु जा- त्योर्न नियम इति । जात्योरित्यनन्तरं सामानाधिकरण्यमिति शेषः । एवं व्यक्त्योरित्यनन्तरमपि । एवं व्याख्याने चा 'त एव न व्यक्तीना' मि. ति मूले पौनरुक्त्यं प्रकाशकृतस्तदपरीहाराकौशलं च न भवति । केचित्तु समभेदालांययन (?) व्यक्ति नियमपक्षस्तत्राशङ्कय निरा कृत इति न पौनरुक्त्यं पूर्वफक्किका तु यथाश्रुतार्थकैवेत्याहुः । ( १ ) समान्तर्भा० ।