पृष्ठम्:न्यायलीलावती.djvu/५६६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

म्यायलीलावतीकण्ठाभरण-सर्विवृतिप्रकाशोद्भासित ४२१ 1 संसर्ग- अशक्यत्वात् । अत एव न व्यक्तीनां व चोभयोरिति । तस्मा दनाकलितव्यभिचारदहनसहचरितधूम दिसंवेदनबशेन कृशानु- मात्रमत्र स्मर्थ्यते । तेन च स्वर्यमाणेनासंसर्गाग्रहात व्यवहारे संवादविसंवादाभ्यामनुमानतदा भासव्यवस्थेत्यस्तु । मैवम् । न ह्ययमर्थः प्रत्यक्षगोचरः । तदभावात् । अनुमानप्रामा- ण्यस्वीकारे तेनैव व्याघाताच्च । नापि सांशयिकः । अनुमानेन साधनदूषणव्यवस्थानुपपत्तेः । एवमेवास्त्विति चेत्, न, अनिश्चि न्यायलीलावतीकण्ठाभरणम् व्यक्त्योरित्यर्थः । चार्वाकः स्वमतमुपसंहरति - तस्मादिति । असंसर्गा• ग्रहस्थापि विशिष्टज्ञानतयवहारजनकत्वादिति आव: । 'असंसर्गाग्रह' पर्वतादौ वह्नयसंसर्गाग्रहः । अयमर्थ इति । तस्मादित्यादिना चार्वाकेण योऽर्थ उपसंहृत इत्यर्थः । तदभावादिति । तत्र प्रत्यक्षाभावादिति भावः। मनु वह्नयर्थिप्रवृत्यनुमेयः स्यात्तदाह - अनुमानेति । सांशयिक इति । असंसर्गग्रहाधीनोऽयं व्यवहारोऽन्यथा वेति सांशयिक इत्यर्थः । अनु. मानं न प्रमाणमिति यत् साधितं यच्चानुमानप्रामाण्यं दूषितं तदप्यनु. मानाधीनमित्याह - अनुमानेति । एवमेवेति । साधन दूषणयोरप्यनुमानम. न्यायलीलावतीप्रकाशः ति । अत एवेति । व्यक्तीनामानन्त्येन भूयोदर्शनाभावादित्यर्थः । उभ योजतिव्यक्त्योरित्यर्थः । नन्वेवं वह्नयनुमित्यभावे घूमदर्शनात् कथ मग्न्यर्थी प्रवर्त्ततेत्यत आह - तस्मादिति । असंसर्गाग्रहस्यापि विशिष्ट ज्ञानसमशीलस्वादित्यर्थः । तथापि कारणाविशेषे कथं कार्ये विचित्रो व्यवहार इत्यत आह - संवादेति । न ह्ययमर्थ इति । तस्मादनाकलितव्य- भिचारेत्यादिना प्रतिपादितः । अथाग्न्यर्थिप्रवृत्या तत्कारणं तदनुमी. यते तत्राह – अनुमानेति । नापीति । ननु किमसंसर्गाग्रहपूर्वकः किंवा अन्यथेत्येवंरूपः एतावताप्यनुमानं न प्रमाणं सिद्ध्यत्येवेति भावः । एवमेषेति । अनुमानेन साधनदूषणव्यवस्था नास्तीत्येवास्त्वित्यर्थः । प्र न्यायलीलावती प्रकाश विवृतिः असंसर्गेति। व्यवहारसंवादावसंवादौ चाविद्यमानविद्यमानासंसर्गा