पृष्ठम्:न्यायलीलावती.djvu/५६८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

न्यायलीलावतीकण्ठाभरण-सविवृतिप्रकाशोद्भासिता ४९३ पत्वात् | तादृशस्य कतिपयविषयभूयोदर्शनजसंस्कारसचिवबाह्ये. न्द्रियवेद्यत्वात् । तथैव शक्तेरवसायात् । अन्यथोपादानादिव्यव. हारविलयात् । न हि दृष्टमुपादेयमुपात्तत्वात् । नाप्यनागतम् । अन वगतत्वात् । न च तदेवानुमितम् । अनवगतनियमत्वात् । न्यायलीलावतीकण्ठाभरणम् पाण्डरत्वादीनामनुमानार्थ तदभिधानमित्यर्थः । व्याप्तिग्रहोपाय. माह - तादृशस्येति । उपस्थितधूमे धूमत्वं वह्नौ च वह्नित्वं संयुक्त सम वायेन गृह्यमाणं तद्विशेषणतया चातीताऽनागत सकलधूमवह्निव्यक्ति- भासमानेषु संयुक्तसमवेतविशेषणतया व्याप्तिश्चक्षुरादिनैव गृह्यत इत्यर्थः । नन्वियं प्रत्यासत्तिरेव न भवतीत्यत आह - अन्यथेति । उपा- दानं प्रवृत्तिरादिपदानिवृत्तिः सामान्यलक्षणामन्तरेण अनागत- पाकादिगोचरा प्रवृत्तिरेव न स्यादित्यर्थः । तदेवांपपादयनि-न हीति। तदेवेति । अनागतप्रा (पाक?) कालिकमेवेत्यर्थः । ननु पाकः कृतिलाध्य पाकत्वात् पूर्वपाकवदित्यत्र पाकत्वमेवानुमेयं तच्च पूर्वगृहीतमेवे न्यायलीलावतीप्रकाशः तदतिरिक्तं तार्णत्वादिकं धूमाग्निविशेषणत्वेन नोपादीयते, किन्तु तज्जात्याक्रान्त व्यक्तिसामान्ययोतिगृह्यने व्यक्तीनामानन्त्येsव्यव च्छेद कैक्या दे की कारणदिति भावः । तद्ब्रहणोपायमाह - तादृशस्येति । कतिपयधूमाग्निव्यक्तिसन्निकर्षेऽपि भूयोदर्शनजसंस्कारसहकृतेन्द्रिय संयुक्त व्यक्तिसमवेतजातिविशेषणतया प्रत्यासत्या तज्जातीयातीता. नागतव्यक्तीनां व्याव्यव्यापकभावः परिच्छिद्य, कथमन्यथा पक्षध मेधूमाग्रहे तस्मादनुमितिरित्यर्थः । ननु सामान्यलक्षणाऽनभ्युपगमे ऽपि सन्निकृष्टधूर्मावषयो धूमत्वेन धूमोऽग्निव्याप्य इति व्याप्त्यनुभवो न तु तत्तद्धूमत्वेन व्याप्त्यनुभवो गौरवात ततस्तथैव व्याप्तिस्मृति- स्ततो धूमवानयमिति व्याप्तिस्मृतिप्रकारेण धूमत्वेन पक्षधर्मधूमस्य शानादनुमितिर्व्याप्त्यनुभवतत्स्मरणपक्षधर्मताज्ञानानामेकप्रकारत्वेना. नुमितिकारणत्वात् आवश्यकत्वाल्लाघवाद । ननु समानविषयत्वेना पि गौरवादित्यत आह - अन्यथेति । अस्ति पाकादाविष्टसाधनताशाना• शिकीर्षा कृतिश्च तयोश्च विषयो नातीतवर्त्तमानः पाकादि: सिद्धत्वेन