पृष्ठम्:न्यायलीलावती.djvu/५६९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

न्यायलीलावती न च जातिरनुमेथा। तस्या अनुपादेयत्वेनानुमान विरोधात् । न च जाति: कारण सम्बन्धानुपपत्ति (१) र्व्यक्ति माक्षिपति । हेतौ सत्यन न्तरभावस्य हेत्वभावेऽभावस्य जातावनुपपलब्धेः । अस्तु जातिम- ती व्यक्ति (२) रिति चेत्, न, उपादेयव्यक्तेरनवगमात् । ततो जा- तिमत्तयाऽशेषव्यक्तिनिर्भासस्तावत् सिद्धः । अन्यथा चेतनमात्र- प्रवृत्तिविलयापत्तेः। अत्र च कतिपयव्यक्तिगोचरसंस्कार सहकृतस्य न्यायलीलावतीकण्ठाभरणम् त्याह- इन च जातिरिति । अनुपादेयत्वेन प्रवृत्यर्थमनुमानावरोधादित्यर्थः । ननु पाकत्वं जातिरेवानुमेया तत्र च कारणस्य कृतेः सम्बन्धोऽनुप. पक्ष इति तदाक्षिप्य व्यक्तावेव कृतिसाध्यत्वं पर्थवसतीत्यत आह- न चेति । तर्हि पाकत्वं कृतिलाध्यमित्यनुमानबाधाम्न स्यादेव कुतस्त. दनन्तरं व्यक्तेराक्षेप इत्याह - हेतौ सतीति । अस्तु तर्हि जातिमती व्य क्तिरित्यत्रानुमेयेत्याह-अस्तिति । ननु भवतु सामान्यलक्षणाप्रत्या. सत्तिस्तथा धूमादौ कस्येन्द्रियस्य सामर्थ्यमित्यत आह - अत्र चेति । - ननु पाकत्वादिप्रकारकेण ज्ञानेनावगत एव भाविनी पाकादाविच्छा. प्रवृत्ती स्यातां तयोरनागतमात्र एव गोचरस्वाभाव्यात्, अतिप्रसङ्ग- स्तु समान प्रकारकत्वानियमाभ्युपगमान्निरस्यः । एवं यधूमावच्छेदेन व्याप्तिग्रहस्तत् प्रकारकपक्षीयलिङ्गज्ञानादेवानुमितिरध्यस्तु किं सा. न्यायलीलावतीप्रकाशः तत्रेच्छाविरहात, अनागतस्य च तस्याज्ञानात्। तस्मात्याकादित्वेन झा तासु पाकादिव्यक्तिषु सिद्धं विहायाऽसिद्धे चिकीर्षाकृती भवत इति सामान्यलक्षणाप्रत्यासत्तिरङ्गी कार्येत्यर्थः । यद्यप्यनागता व्यक्तिर्ज्ञातुं न शक्यते, तथापि प्रत्यक्षसिद्धा जातिरनुमेयेत्यत आह - न च जातिरिति । उपादेयत्वेन यदनुमानं तस्य विरोधात जातेरनुपादेयत्वादित्यर्थः । दोष सहकारित्वेत्यभ्युपगमवादः, इन्द्रिय सम्बद्धविशेषणतायाः प्रत्या. न्यायलीलावतीप्रकाश विवृतिः www इन्द्रिय सम्बद्धेति | इन्द्रियसम्बद्धं शानं संयुक्त समवायेन तद्विशेषणीभूतं च रजतत्वमित्यर्थः । इदं च विशिष्टप्रत्यक्षमात्रे विशेषणसन्निकर्षो हेतु- ( १ ) पत्तेर्व्य० । ( २ ) ती व्यतिरि० ।