पृष्ठम्:न्यायलीलावती.djvu/५७४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

न्यायलीलावलीटण्डारण-सविशतिप्रकाशोज्ञालिता ४९७ न्यायलीलावतीप्रकाशः कृत्स्नेन साध्येन साधनस्य सम्बन्धो व्याप्तिः, विषमव्याप्ते तदसम्भ- वाच । न च यावत्साधनाश्रयाश्रित साध्यसम्बन्ध: कात्यर्थः, साध- नाश्रये महानसादी सकले प्रत्येकवहेरभावात् । नापि साधनसमाना. धिकरणयावद्धर्मसमानाधिकरणसाध्यसामानाधिकरण्यं तदर्थः, या. वज्रर्मसामानाधिकरण्यं हि यावद्धर्माधिकरणाधिकरणत्वं तच्चाप्र सिद्धं साधनसमानाधिकरणसकलमहानसत्वाद्याधकरणप्रतीतेः । अथ सम्बन्धमात्रं व्याप्तिः, व्यभिचारिसम्बन्ध स्थापि केनचित्स मं व्याप्तित्वात् । धूमातिव्याप्तर्विशिष्यैव निर्वतव्येति तत्र लिङ्गपरा मर्षविषयव्याप्तिस्वरूपनिरूपणप्रस्तावेऽस्यार्थान्तरत्वात् सम्बन्धमा त्रज्ञानाद नुमित्यनुत्पत्तेः । अथ केवलान्वयिनि केवलान्वयिसम्बन्धो व्यतिरोकिणि च साध्यवदन्यावृत्तित्वं व्याप्तिः । न चाननुगमः, एतयोरनुमिति विशेषजनकत्वात् अनुमितिमात्रे पक्षधर्मतायाः प्रयोजकत्वात् । न चातिप्रसङ्गः, विशेष सामग्रीसहिताया एव सामान्यसामग्या जन- कत्वात् | मैवम् | साध्यवदन्यावृत्तित्वस्य धूमेऽप्यसत्त्वात् वह्निमत्पर्व- तादन्यत्र धूमस्य वृत्तेः । न च सकलसाध्यवदन्यावृत्तित्वं वह्नि मतां प्रत्येकमपि सकलसाध्यवदन्यत्वेन धूमस्याप्यतत्वात् । नापि न्यायलीलावतीप्रकाशविवृतिः भिचारिन वेति संशयेन संशयाधानमुक्त संशयक्ष्यैव विना सामा- न्यलक्षणमनुत्पत्तः । प्रसिद्धचह्निव्यभिचारिवृत्तित्वे बाधनिश्चयादप्र. सिद्धस्य तस्याज्ञानादिनि दिक् । इदं च मूलदूषणमुभयसिद्धेन प्रकारेण सामान्यलक्षणासिद्धि. रस्त्वित्यभिप्रायेण | अस्मन्मतरीत्या तु मूलमेव सम्यक् | तथा हि समानप्रकारत्वेन ज्ञानस्येच्छाकृतिजनकत्वे घंटे पटत्वेनेच्छाकृत्यापत्तिः न च जनकीभूतज्ञानप्रकाराश्रयविषयत्वमिच्छायाः कृतेश्च स्वभावोऽ सिद्धविषयत्ववदिति वाच्यम्, रजतज्ञानाच्छुक्ताविच्छा कृत्यनापत्तेः । न च तत्र रजतज्ञाने स हेतुरेवेति वाच्यम्, इष्टज्ञानस्य सामान्यत एव हेतुत्वावधारणादिति । एवं चानुमितेर्विशेषणज्ञान जन्यत्वेनापि सामान्यलक्षणासिद्धिः । अन्योन्यात्यन्ताभावभेदेन लक्षणद्वयमाशङ्कते - नापि साध्यासामाना- M ६३ न्या०