पृष्ठम्:न्यायलीलावती.djvu/५७५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४९८ स्थायलीलावती पुनरनुपाधित्वं, अनैकान्तिके सोपाधित्वोद्भावनापत्तिः ( १ ) | न्यायलीलावतीकण्ठाभरणम् साध्यवैयधिकरण्यानधिकर त्यर्थः । टीकाकृदभिमतं व्याप्तिस्वरूपं निरस्यति- -न पुनरिति । अनैकान्तिक न्यायला लावतीप्रकाशः साध्या सामानाधिकरण्यानधिकरणत्वं णत्वं वा केवलान्वयिन्यव्यातेः । अन्ततो धूमेऽप्यसत्वात् । नापि स्वसमानाधिकरणात्यन्ताभावाप्रतियोगिसाध्यसामानाधिकरण्यं द्व व्यत्वादः संयोगाद्यव्याप्यवृत्त्यव्याप्यतापत्तेः । उच्यते - यत्सम्बन्धि तावच्छेदकरुपवरचं यस्य तस्य सा व्याप्तिः । तथा हि धूमस्य वह्नि सम्बन्धित्व धूमत्वमवच्छेदकं धूममात्रस्य वह्निसम्बन्धित्वात् । बहेन्तु धूमसम्बन्धन वह्नित्वमवच्छेदकं धूमासम्बन्धिनि गतत्वात् । किन्त्वा द्वैन्धनप्रभववाहित्वं तादृशं च व्याव्यमेव । यद्वा यत्समानाधिकरणा- न्योन्याभावप्रतियोगि यद्वन्न भवति तेन समं सामानाधिकरण्यम् | व हिमन्महानसस्य धूमवत्पवतान्योन्याभावप्रतियोगित्वेऽपि न व्यधिकर णवह्निधूमयोर्व्याप्तिः, किन्तु तत्तधूमसमानाधिकरणनत्तद्वाह्नना | न चैवं धूममात्रस्य न वहिव्याप्यत्वं, सर्वधूमव्यक्तस्तथात्वेन धूममात्र. स्य व्याप्यत्वात् । धूमसम्बद्धश्च वह्निस्तद्याप्य एव । अनौपाधिकः स. म्बन्धो व्यातिरित्यन्येषां मतमास्कन्दति पुनरिति । अनैकान्तिक इति । न्यायलीलावतीप्रकाश विश्वतिः घिकरण्येति । यत्सम्बन्धितेति । अत्र सम्बन्धिता सामानाधिकरण्यम्, अ. वच्छेदकत्वं स्वरूपसम्बन्धविशेषः । तन्नियामकं व सामानाधिकर ण्यात्यन्ताभाववदवृत्तित्वम्, न तु सामानाधिकरण्याभन्नावृत्तित्वम्, द्रव्यत्वे गोत्वव्याप्यतापत्तेः । न चैवं वृक्षत्वे संयोगव्याप्यता न स्या- दिति वाच्यम्, हेत्वाधकरणीभूतव्यक्त्यवच्छन्नसामानाधिकरण्या- त्यन्ताभाववदवृत्तित्वस्य तत्त्वात् । न चायमभिधेयवान् प्रमेयादि- त्यत्राव्याप्तिः । तत्रापि वृत्तिमत्प्रमेयत्वस्य ताहशत्वात् । हेतुतावच्छे. दकं तु तत्रापि प्रमेयत्वमेव, व्यभिचार्यवृत्तित्वे सति लघुशरीरत्वात् । एवं नीलधूमादावपि नीलधूमत्वादिकमपि व्याप्तिप्रविष्टमेवावच्छेदकं हेतुतावच्छेदकं तु धूमवत्वमेवेति दिक् । यद्वेति । न चैवं पृथिवीत्व गन्धव्याप्यत्वं न स्यादिति वाच्यम्, ( १ ) ०नापत्तेः ।