पृष्ठम्:न्यायलीलावती.djvu/५७६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ज्यायलीलावतीकण्ठाभरण- सार्वतिप्रकाशांद्वासिता ४९९ न्यायलीलावतीकण्ठाभरणम् इति । अनैकान्तिकत्वं हि व्याप्तिविरहो नायकतया यदि दूषणं तदा तत्र सोपाधिकत्वं, यद्व्यातिविरहः प्रथमं स एवोद्भाव्यते तर्ह्यनुमेयमनु. द्भाव्योन्नाय कोद्भावनावसरः, अप्राप्तकालत्वापत्ते: । व्याप्तिविरहरूप- तया चेद् दूषकत्वं यदा कार्तस्न्येन सम्बन्धो व्याप्तिरित्यायातं सा. न्यायलीलावतीप्रकाशः अयमर्थः - अनैकान्तिकस्य दूषकत्वं व्यातिविरहतया तदुन्नायकतया वा सत्प्रतिपक्षवत् व्याप्तिविघटनमकुर्वतः स्वातन्त्र्येण वा | नाद्यः, उपाधिविरहरूपव्याप्तेरभाव उपाधिरेवेत्यनैकान्ति के उपाध्युद्भावना- पत्तेः । न द्वितीयः, व्याप्तिविरहस्योपाधिरूपत्वेनानैकान्तिकंन तदुन्न- यने उपाध्युद्भावनापत्तेः। यदुन्नयनद्वारा हि यस्य दूषकत्वं तेन तदवश्यं दुष्टयर्थमुन्नपनीयम् । अन्यथा तदुन्नयनं विनैव तस्य दूषकत्वे तदुन्ना. यकत्वेन यदूषकत्वमुक्तं तद् भज्येत । न तृतीयः, एवं तत्स्वाद्यदि व्यातिपक्षघमेताज्ञान सत्यवान्ययप्रयुक्तोऽनुमितिव्यतिरेकः स्यात् ।म त्वेवमनै कान्तिकरचे व्याप्तिविरहस्यैवानुमविकत्वात् । तस्मा दनैकान्तिके आनुभविको व्यातिविरहस्तदैव परसुपपद्यते यदि तस्य व्याप्तिविरहरूपत्वं तदुनायकत्वं वा स्वात्तत्र च बाधकमुक्तमेवेति । वयं सम्प्रदायविदस्तु यथा बाधसत्प्रतिपक्षौ पक्षधर्मताज्ञान प्रतिबन्धकत्वे- नासिद्धिवदनुमिति प्रतिबन्धकत्वेन वा दोषों तथाऽनेकान्तिकविरु द्धावण्य सिद्धधनायकत्वेन दोषौ । तथा च व्याप्तेरनौपाधिरूपत्वेऽप्यव इयमनैकान्तिकत्वनोप/धिरुनयनीयः, तर्हि कृत्स्न सम्बन्धत्वेऽपि व्या. तेरनैकान्ति के तद्यतिरेकोद्भावनप्रसङ्ग इति तुल्यम् | मैवम्, अनैकान्ति. न्यायलीलावती प्रकाश विवृतिः उक्तान्योन्याभावप्रतियोगितावच्छेदकं यदवच्छिन्नत्वं न भवति तद वच्छिन्न सामानाधिकण्यं व्याप्तिरित्यर्थात् । न चैवं सामानाधि- करण्यमेव व्याप्तिरस्त्विति वाच्यम्, द्रव्यत्वे पृथिवीत्वव्याप्यता. पत्तेः । यथा बाधेति । व्यातिपक्षघर्मता चाविरुद्धता हेत्वाभासत्वा- योगादितिमतमाश्रित्येदम् । अत एवानुशयादाह – असिद्धिवदनुमिति प्रतिबन्धकत्वेन वेति । एवञ्च दोषत्वमात्रे दृष्टान्तता | स्वमते सम्प्रदाय मते च शङ्कते - तीति । तथ्यतिरेकेति । कृत्स्नसम्बन्धव्यतिरेक त्यर्थः | मैवमिति । तथा च मत्पक्षेऽर्थादेव तद्यतिरेकलाभात्तदुवा.