पृष्ठम्:न्यायलीलावती.djvu/५७७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५०० न्यायलीलावती नापि साध्याभावविरोध: । अन्वयिनि प्रतिबन्धा सिद्धियाप्तेः । न्यायलीलावतीकण्ठाभरणम् ध्याभावववृत्तित्वस्यानैकान्तिकत्वस्य कार्तस्न्येन सम्बन्धाभावरू. पत्वादित्यर्थः | साध्याभावविरोधित्वमपि न व्याप्तिरित्याह - नापीति । केवलान्वयिनि साध्याभावाप्रसिद्ध्या य ( त ?) त्राच्या प्रेरित्यर्थ: । प्राप्तेरिति । न्यायलीलावतीप्रकाशः कत्वेन सोपाधित्वं साधयितुं न शक्यते, साधनाभाववद्वृत्तित्वस्यो- पाधित्वात् । अतोऽत्र निकान्तिकत्वेऽपि यद्यनौपाधिकत्वं स्यात्तदा को विरोध इति शङ्कावतरति । अनैकान्तिकत्वेऽपि कृत्स्नसम्बन्ध: स्यादि ति शङ्का नास्ति व्याघातात् । न हि साध्यकृत्स्नसहचरितं च साध्या भाववद्वृत्ति चेति सम्भवतीति । नन्वेषमुपाधिरसिद्धधुपजीव्यत्वेना. नैकान्तिकवद्धेत्वाभासान्तरं स्यान्न तु व्याप्त्यभावत्वेनासिद्धिः। मैवम्, तज्ज्ञानस्योपजीव्यत्वेऽपि सिद्धसाधनवत् स्वतो दुषकत्वाभावात् । न ह्यन्यस्य साध्यव्याप्यत्वलाघनाव्यापकत्वज्ञानमन्यस्य साध्यव्याप्य वज्ञाने स्वतः प्रतिबन्धकं व्यभिचाराज्ञानस्य तद्धेतुतया तज्ज्ञानस्य तथात्वात् । नापीति | साध्यात्यन्ताभाववदवृत्तित्वमपि न व्याप्तिः, केव न्यायलीलावतीप्रकाशविवृतिः वनम्, त्वरपक्षे चार्थान्न तल्लाभ इति सोपाधित्वोद्भावनप्रसङ्ग इति प्रघट्टकार्थः। 'साधयितुं' मन्तुम् । वस्तुतः कारणविरहरूपत्वेनैव व्यभि चारज्ञानं दूषकमिति मतद्वयमध्ययुक्तम् । अत एवानौपाधिकत्वव्या. तिपक्षे साध्यात्यन्ताभाववद्गामित्वमविरोधीति विरोधिसोपाधित्वो द्भावनापत्तिः | मत्पक्षे च तस्यैव निरुक्तव्याप्तिविरोधितया न तदा पत्तिरिति मूलार्थ इति परास्तम् | विषयाविरोधेऽपि कारणाभाव. तथैव प्रतिबन्धकत्वात् । तस्मादयं मूलार्थः । स्फुटे व्यभिचारे सोपा. धित्वं नोद्भाव्यत इति सम्प्रदायः । स चानौपाधिकत्वव्याप्तिपक्षं विरु ध्येत । व्यभिचारज्ञानस्येव उपाधिज्ञानस्यापि परामर्षाविषयाभावा. वगाहितया प्रतिबन्धकत्वात् | मत्पक्षे नोपाधिज्ञानं तथा, न वा तद भावः कारणमिति जोपाध्युद्भावनमिति न सम्प्रदायविरोध इति मूलार्थ इति प्रतिभाति । उपाधित्वेन सन्दिग्धत्वादित्यर्थः । अत एव तदाहितं व्यभिचारसंशयमाह - अतोऽत्रेति । अत एव नायमुपाधिः