पृष्ठम्:न्यायलीलावती.djvu/५७८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

यायलीलावतीकण्ठाभरण-सविवृत्तिप्रकाशोन्हासिता ५०१ किं पुन रस्या लक्षणम् अनुपाधिकत्वम् । किं पुनरुपाधित्वम् । न्यायलीलावतीकण्ठाभरणम् प्रसक्तरित्यर्थः । ननु कान्येन सम्बन्धो व्याप्तिः, कृत्स्ने प्रत्येक साध्य सम्बन्धाभावात् । नापि साध्यगतं कार्तुरून्यं विवक्षितं विषमव्याप्तेरनु. परन्नग्रहात् । नापि स्वाभाविक सम्बन्धः स्वभावजन्यत्वस्वभावा- श्रितत्वयोस्तद्धितार्थत्वेन समवायरूपव्याप्त्यव्याप्तेः । नाप्यनौपा- धिकः सम्बन्धः, व्यातिनिरूपणमन्तरेण उपाध्यनिरूपणात् । ना- व्यविनाभूतः सम्बन्धः, साध्यान्वये साधनान्वयस्य साध्यव्यतिरेके साधनव्यतिरेकस्य वा तदर्थत्वे व्यभिचारिसाधारण्यात् । नायव्यभि चरितः सम्बन्धः, अव्यभिचारस्य साध्या भाववदवृत्तित्वरूपतया केव लान्वयिन्यव्याप्तेः | नापि साधनसमानाधिकरणयावद्धर्म्मनिरूपित वैयधिकरण्यानधिकरण साध्य सामानाधिकरण्यम् । तद्धि साधनसमा- नाधिकरण साध्यकत्वं, तत्र यावद्धर्म्माधिकरणाधिकरणस्य एकस्य प्रसिद्धिदुर्भिक्षम् | मैवम्, साधनसमानाधिकरणात्यन्ताभावाप्रतियो गिसाध्यसामानाधिकरण्यस्य साधनवनिष्ठान्योऽन्याभात्राप्रतियो गिसाध्यवत्कत्वस्य साधनसमानाधिकरणधर्म्मनिरूपितवैयधि- करण्यानधिकरण साध्यसामानाधिकरण्यस्य वा व्याप्तिस्वरूपत्वात् । अत्यन्ता मावस्यान्योऽन्याभावस्य वा सामान्यावच्छिन्नस्य वा वि. वक्षितत्वेन यत्किञ्चित्साध्यपरिग्रहेणातिव्याप्तिव्याप्तिर्वा किं पुनरिति । किं लक्षणं किं ज्ञापकं लक्ष्यतेऽनेनेति व्युत्पत्तेः । अनु. पाधित्वमिति यावत् । अव्यभिचारिसाध्यसामानाधिकरण्यं यावत् साध्यव्यापकव्यापकत्वं वा यावत् यत्समानाधिकरणात्यन्ताभा- वाप्रतियोगिसाध्यसामानाधिकरण्यं वेत्यर्थः । उपाधिज्ञानाधीनम नौपाधिकत्वज्ञानमित्युपाधिं पृच्छति - किं पुनरिति | साध्यकृत्स्नसह- । न्यायलीलावतीप्रकाशः लान्वयिनि साध्यात्यन्ताभावाप्रसिद्धेर व्याप्तेरित्यर्थः । किं पुनरिति । अ स्याः व्याप्तेः किं लक्षणं किं ज्ञापक लक्ष्यतेऽनेनेतिव्युत्पत्तेः । अनुपाधिक • | साध्यसाधनयोरनौपाधिकः सम्बन्ध इत्यर्थः । ननु यत्किशि साध्यव्यापकसाधनाव्यापकधर्मशून्यत्वं धूमऽपि नास्ति, प्रकृतसाध्य व्यापकसाधनाव्यापकधर्मश्च सिद्धयसिद्धिव्याघातेन न निषेद्धुं श.