पृष्ठम्:न्यायलीलावती.djvu/५७९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५०२ न्यायलीलावती साध्य कृत्स्नसहचारिणः साधनैकदेशवृत्तित्वम् । अत एव च न न्यायलीलावतीप्रकाश: · क्यः | मैवम्, यावत्स्वव्यभिचारिव्यभिचारिसाध्यसामानाधिकरण्यस्य तदर्थत्वात् । न चैवमावश्यकत्वात्तदेव व्याप्तिः, उक्तदोषात् गौरवाच । यथाश्रुतमभिप्रेत्य पृच्छति - किं पुनरिति । उपाधेरज्ञाने तदभावाज्ञाना. दित्यर्थः। उत्तरम्-साध्येति | साध्यव्यापकतयाऽभिमतस्य यो व्यापकः स्यात्तस्त्र व्याप्यतयाऽभिमतस्याव्यापको यो धर्म इत्यर्थः । न चानौ- पाधिकत्वज्ञानस्य व्याप्तिज्ञानहेतुत्वाद्यापकत्वज्ञानेऽन्योन्याश्रयः, तद्- निष्ठात्यन्ताभावाप्रतियोगित्वस्य व्यापकत्वरूपत्वात् । प्रतियोगित्वं न सहानवस्थाननियमलक्षणं गोत्व | इवत्वयोरतिव्याप्तेः, अन्योन्यामा वप्रतियोगिनि तदभावाच्च । किन्त्व न्त्वभावविरहात्मत्वमिति भावः । ननु पक्षधर्मावच्छिन्नसाधना वच्छिन्न साध्यव्यापकोपाध्योरेतद् व्यापकम् । न च तयोरनुपाधित्वं दूषकतावीजलाम्येन तत्र तयोरुपाधित्वस्वी. कारात पक्षेतरत्वेऽतिव्याश्च । यदि पक्षे साध्यं वर्त्तते तदा तस्य (१) पक्षावृत्तित्वेन साध्याव्यापकत्वम् । अथ तत्र तदभावस्तदोपाधित्वमेव तस्य बाधोनीतत्वादिति चेत्, न, पक्षभिने साध्यव्यापकत्वग्रहेणैव त. न्यायलीलावतीप्रकाश विवृतिः T सोपाधित्वेन निश्चेतुं शक्यते । अनैकान्तिके सोपाधित्वव्या व्योपाध्यसम्भवादिति परास्तम् याबस्वव्यभिचारीति । स्वं व्य भिचारि येभ्यः ते स्त्रव्यभिचारिणः । न च भावत्वोपा- धिके विनाशित्वसाध्यकजन्यत्वहे नाव तिव्याप्तिः । तत्रापि भाव- प्रागभावाऽन्यतरत्वमादाय यावदर्थाभावात् । च तन्मात्रोपा धिकत्वेन ज्ञाते अनौपाधिकत्व व्यवहारापत्तिः । व्यभिचाराननुमिति. दशायामिष्टत्वात्तदनुमितौ च साध्यमादायैव यावदर्थाशानादिति दिक् । उक्तदेोषादिति । अनैकान्तिके च स्वोपाधित्वोद्भावनापत्तेरिति मूलोक्तदोषादित्यर्थः । अनौपाधिकत्वज्ञानं यद्यपि न व्याप्तिधीमात्रे हेतु: किन्तु लिङ्गविधया क्वचिदेव तथाप्यभ्युपेत्य समाधत्ते । तद्व- निष्ठेति । पक्षभिन्न इति । तथा च दूषकतावीजस्यातिव्याप्तिरेवेति (१) पक्षेतरत्वस्येत्यर्थः ।