पृष्ठम्:न्यायलीलावती.djvu/५८०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

न्यायलीलावतीकण्ठाभरण - सविवृतिप्रकाशोद्भासिता ५०३ न्यायलीलावतीप्रकाशः स्य दूषकत्वात् । अन्यथा पक्षं साध्य सन्देहादनुपाधित्वे तन्मात्रोच्छेद- प्रसङ्गात् । विपक्षाव्यावर्त्तक विशेषणशून्यत्वं तत्र विशेषणमतो न पक्षे तरत्वेऽतिव्याप्तिने वा बाधोनीता व्याप्तिस्तत्र पक्षाभिमतस्यापि विपक्ष त्वादिति चन्न, पक्षेतरत्वस्थ साध्यव्यापकतया तद्यावृत्याऽवश्यं व्या व्येन व्यावर्त्तितव्यमिति हेतोर्व्यभिचारात् । तत्र वावश्यमुपाधिरिति पक्षेतरत्वस्यैव तत्त्वात् | साध्याव्यापकत्वे च तत एव तस्यानुपाधि स्वे तद्यावर्त्तक विशेषणस्याधिकत्वात् । अत एवानुमानमात्रोच्छेदकत- या जातित्वान्न पक्षेतरत्वस्योपाधित्वमित्यपास्तम्, उक्तरीत्या दूषण. समर्थत्वेन जातित्वाभावात् । अथोपाधिः स्वव्यतिरेकेण साध्याभावं गमयन् सत्प्रतिपक्षत. या दूषणं, न व्यभिचारोन्नायकतया व्याध्यत्वासिद्ध्युम्नायकतया वा । तथा हि - अयं धूमवान् अग्निमत्त्वादिति प्रयुक्ते आर्द्रेन्धनवत्वोपा श्रेर्ग्यभिचारोन्नायकत्वमित्थं वाच्यं, अग्निमस्त्वं धूमवत्वव्यभिचारि तड्यापकाद्वैन्धनव्यभिचारित्वात् प्रमयत्ववत् । अयं चासिद्धो हेतुः आन्धनवत्वस्य धूमदत्त्वव्यापकत्वासि । आन्धनवत्वं धूमव. स्वाव्यापकं, तयाप्याग्निमत्त्वाव्यापकत्वात् पटत्ववत | न च स्वरू पासिद्धो हेतुः, आर्द्रेन्धनवत्वस्य साधनव्यापक तयाऽनुपाधित्वापत्तेः । धूमवत्वव्याप्यत्वमग्रिमत्त्वस्यासिद्धमिति चेत्, तकि व्यभिचारदर्श नादुपाधिदर्शनाद्वा । आधे उपाध्युपन्यासोऽनर्ह, व्यभिचारे तस्य व्यर्थत्वात् । अन्त्यें उपाधेगसिद्धेः । न्यायलीलावती प्रकाशविवृतिः भावः । विपक्षेति । निर्विशेषणगोत्वादिसङ्ग्रहाय नज़द्वयगर्भता । एन द्विशेषणान्तर्भावेनापि ज्ञानं दूषणमित्याशयः । एतद्विशेषणान्तर्भा वेन ज्ञानं न प्रतिबन्धकं व्यभिचारोन्नयनाद्य प्रयोजकत्वा दिव्यभिस न्धाय परिहरति – पक्षेतरत्वस्येति । तथा च भवन्मते पश्चेतरणोपाधिरि त्यतिव्याप्तिरुक्ता | मन्मते तु दूषकतावीजसत्त्वेन सोपि संग्राह्य एवेति तारक विशेषणप्रक्षेपे अव्याप्तिरित्युभयतः पाशा रज्जुरित्यर्थः । दूष कतावीजाभावात्राव्याप्तिर्विशेषणदानाञ्च नातिव्याप्तिरनन्यगतिक- तथा च तावदूरशानं प्रतिबन्धकमित्यामप्रेत्य शङ्कते--अथेति । असिद्धत्वं विशेष्यासिया विशेषणासिद्ध्या वा । आधे दूषण. माह - आर्देन्धनवत्वस्येति । -