पृष्ठम्:न्यायलीलावती.djvu/५८२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

न्यायलीलावतीकण्ठाभरण-सविवृतिप्रकाशोद्भालिता न्यायलीलावतीकण्ठाभरणम् चारिणः साध्यव्यापकस्य साधनैकेदशवृत्तित्वं साधनाव्यापकत्व. मित्यर्थः । अत एवेति । शब्दोऽनित्यः कृतकत्वादित्यत्र साधनवत्वं न्यायलीलावतीप्रकाशः पाधित्वापत्तेः पर्वतेतरद्रव्यत्वादेरुपाधित्वापत्तेश्च व्यतिरेकेऽसाधा' रण्याभावात् । दूषकतावीजं तूपाधेर्थ्यभिचारोन्नायकत्वमेव | यदि ह्युपाधौ तुल्ययोगक्षेमतया साध्यव्यापकत्वनिश्चय एव नास्ति त दोपाधित्वनिश्चयाभावाद्दूषकतैव नास्तीति तर्कादिना व्यापकतानि श्चयः । अथ पर्वतेतरान्यत्वादित्यत्र व्यतिरेक इतरान्यत्वस्यासिद्धि. वारणार्थ पर्वतो विशेषणमिति व्यतिरेके व्यर्थविशेषणत्वा. श्न स उपाधिः । मैवम्, बाघोनीतपक्षेतरत्वस्याप्यनुपाधित्वापत्तेः । न चेष्टापत्तिः, इतरत्वस्य केवलान्वयितया तदन्यत्वस्याप्रसिद्ध्या व्या पत्यग्रहे तस्य सार्थकत्वादिस्यन्यत्र विस्तरः | अथ साध्यसमव्याप्तस्यैव उपाधित्वान्न पक्षेतरत्वमुपाधिः । न च तदसिद्धं व्यभिचारविरोध्यभावप्रतियोगिन एव उपाधित्वात् । विष मध्यतिरेकोपाध्यभावथ्य न व्यभिचारविरोधी, किन्तु समव्याप्तस्यै वाभावः । न हि साध्यव्यापकव्याप्यभूतस्य यद्याप्यं तत्साध्यं व्य भिचरति, तड्यापकव्याप्येन व्याप्यं व्यभिचारि चेति व्याघातात् । न्यायलीलावतीप्रकाशविवृतिः व्यभिचारोन्नायकत्वमेवेति । एवञ्च पश्चेतरत्वोपधिर्व्यतिरेकासाधा. रण्येऽपि व्यभिचारो नायकत्वेनैव दोषता स्यादिति भावः । न तु सर्वत्र तथा नियमोऽभिमत इति ध्येयम् । अथ पर्वततरेति । यद्यपि व्य भिचारो नायकत्वेनैवोपाधेद्वेषकत्व मित्यनुपद मेवोक्तमिति व्यतिरेके व्यर्थविशेषणत्वं न दोषावहं तथापि व्यभिचारोन्नयनेऽपि पर्वत- तरत्वव्यभिचारित्वमेव लिङ्गं तत्रापि च पर्वतपदमसिद्धिवाचकमेवे. ति भावः । तदन्यत्वस्येति । तत्सा मानाधिकरण्ये लक्षणव्यभिचारित्वस्या व्यसिद्धेरिति शेषः । 'उपाधित्वा' दुपाधित्वेन सङ्ग्राह्यत्वात् । एवं सिद्धा न्तेऽपि बोध्यम् । उपाधिरिति । उपाधित्वेन सङ्ग्राह्य इति भावः । तथा च तद्वारकविशेषणप्रक्षेपे नाव्याप्तिदोष इति भावः । यदभावे सत्यनुमि- तिस्तदेव दूषणमिति सामान्यनियमादुपाधिरपि तादृश एव दूषण. मित्याभप्रायवानाह — व्यभिचारविरोधीति । व्यभिचाराभावापादनप्रस ६४ न्या०