पृष्ठम्:न्यायलीलावती.djvu/५८३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५०६ न्यायलीलावती न्यायलीलावतीप्रकाशः यत्र व्यभिचारस्तत्र साध्यसमव्याप्तमन्ततः साध्यमप्युपाधिः सम्भ. वत्येव, स्वं प्रति स्वस्य व्यापकत्वे सति व्याप्यत्वात् साधनाव्याप. कत्वाच्च । विषमव्याप्तिकस्याभावश्च न तथा दृष्टमनित्यत्वव्यापकं प्रमेयत्वं तद्याव्यञ्च गुणत्वम् | न चानित्यत्वगुणत्वयोर्व्याप्तिः | मैवम्, दूषकतावीजस्य व्यभिचारोनयनस्य समतया विषमव्याप्तस्याप्यु. पाधित्वात् । अव्यभिचारे च साध्यव्यापकव्याप्यत्वस्याऽतन्त्रत्वात् गौरवात् भवतैव व्यभिचारस्य दर्शितत्वाच्च । किन्तु साध्यव्याप्य व्याप्यत्वमेव तन्त्रं लाधवादावश्यकत्वाच्च । यदि च यद्यतिरेकेऽनुमि · तिर्भवत्येव तद्दूषण तदा विरुद्धत्वादेरतत्त्वापत्तिः । किन्तु यत्सत्वे. ऽनुमित्यभावः तदेव तत्र दूषणम् | अथ साध्यसाधनसम्बन्धव्यापकत्वे सति साधनाव्यापकः । तेन पक्षधर्मसाधनावच्छिन्न साध्यव्यापकोऽप्युपाधिर्भवति | मैवम्, शब्दो- ऽभिधेयः प्रमेयत्वादित्यत्राश्रावणत्वस्योपाधित्वापत्ते: शब्दधर्मगुण- त्वाऽभिधेयत्वसम्बन्धव्यापकत्वात् प्रमेयत्वस्य साधनस्याव्यापक. त्वाच्च । जलं प्रमेयं रसवत्वादित्यत्र रसवत्त्व प्रमेयत्वसम्बन्धव्यापक. स्य पृथिवीत्वस्योपाधित्वापत्तेश्च । अपि च साध्यसाधनसम्बन्धव्य. न्यायलीलावतीप्रकाशविवृतिः अकीभूताभावप्रतियोगिसाधनाव्यापकत्वस्येत्यर्थः । अव्यभिचारे चेति । तथा व निरुक्तस्योपाधिताप्रयोजकत्वे साध्याsव्याप्य उपाधिः स्या दिति भावः । यदपि दूषण सामान्यरूपानुरोधेनोपाधिरपि तथैव 'दूषण' मित्युक्तं तदपि दूषयति -- यदि चेति । तथा च नंदं दूषणसामान्यस्वरूपं यदनुरोधादुपाधिस्वरूपमपि तथा स्यादित्यर्थः । विशेषणाप्रवेशे पक्षेनरत्वे त्वन्मतेऽतिव्याप्तिस्तत्प्रवेश चास्मन्मतेऽव्याप्तिरिति दोषे सत्येवावच्छिन्न साध्यव्यापकोपाध्यव्यातिनिरासमात्राभिप्रायेण लक्ष णान्तरमाशङ्कते - अथेति । शब्दोऽभिधेय इति । यद्यपि अभिधेयत्वप्रमेय - त्वसम्बन्धाधिकरणे गुणत्वादौ नाश्रवणत्वमिति नोक्तातिव्याप्तिस्त. थापि प्रमेयत्वादित्यनेन प्रमेयधर्मतया गुणत्वमेव प्रकृतमित्यभिप्रा. येणेदम् । एवञ्च सति शब्दधर्मेातकीर्तनं प्रमेयधर्मत्वलाभाय । अग्रे च गुणत्वाभिघयत्वसम्बन्धव्यापकत्वादित्येव पाठः । अग्रे च प्रमेयत्व- स्येत्यस्य गुणत्वस्येत्यर्थः । यद्वा लक्षणे साक्षारपदं धर्मपरम् । अत