पृष्ठम्:न्यायलीलावती.djvu/५८५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

न्यायलीलावती न्यायलीलावतीप्रकाशः क्वचिदुपाधित्वादिति, तन्न, अनुमितिप्रतिबन्धकज्ञान विषयतावच्छे दकं ह्यपाधित्वमिह निरूप्यं तच्च न व्यतिरेकिधर्मत्वमतिप्रसङ्गात् । तत्रास्मत्पितृचरणाः- यद्यभिचारित्वेन साधनस्य साध्यव्यभिचारित्वं स उपाधिः । लक्षणन्तु पर्यवसित साध्यव्यापकत्वे सात साधनाव्या- पकत्वम्, यद्धर्मावच्छेदेन साध्यं प्रसिद्धं तत्पर्यवसितम्, स च धर्मः क्वचित्साधनं कचिद्रव्यत्वादि कचिन्महानसत्वादि साध्यव्यापक. व्यभिचारिणः साधनस्य साध्यव्यभिचारावश्यकत्वात् । पक्षेतरत्व. स्य च न साध्यव्यापकत्वम् । न हि सहचारदर्शन व्यभिचारादर्शना न्यायलीलावती प्रकाश विवृतिः विशेषप्रतियोगिकोपाधे: स्वरूपं दर्शयति – यद्यभिचारित्वेनेति । विशे षणत्वातिरिक्त विशेषण विशेषितेन सन्दिग्धभूतेन यस्य यद्यभिचा. रित्वमनुमातुं शक्यते स तत्र साधने तत्साध्यप्रतियोगिक उपाधि रित्यर्थः । विशेषणपदार्थः यदवच्छिन्नसाध्यव्यापक उपाधिः सः । आद्यविशेषणेन लिङ्गे विशेषणान्तराप्रवेशतत् प्रवेशविवक्षयोरिति प्रसङ्गाव्याप्तीति दुषणमपास्तम् । द्वितीयविशेषणेन चाकाशे साध्ये घटादेरुपाधित्वप्रसङ्गः | साध्यव्यापकादावपि साध्यव्यापकत्वादि. भ्रमविषयेऽतिप्रसङ्गश्चेति दूषणद्वयमपास्तम्, व्यर्थविशेषणतया व्या. पत्यादिराहित्येन च तत्र सल्लिङ्गत्वाभावात् । शक्यत इत्यनेन योग्य तोक्ता | तेन दैवायभिचाराननुमापके नाव्याप्तिः | योग्यतावच्छेदक च शुद्धसाध्यव्यापकप्रतियोगित्वम् । विशेषणसामानाधिकरण्याव- च्छेदेन विशिष्टसाध्यव्यापकप्रतियोगित्वं चेति दिक् । सङ्क्राह्यस्यो पाघे: स्वरूपं दर्शयित्वा दूषणताप्रयोजकरूपं दर्शयन्नेव लक्षणमाह- लक्षणमिति । अत्र पर्यवसितपदमुभयान्वयि | पर्यवसितत्वश्च धर्मवि शेषणावच्छिन्नत्वम् | तेन यद्धर्मावच्छिन्नसाध्यव्यापकत्वे सति तद्ध- विच्छिन्न साधनाव्यापकत्वमित्यर्थः । अवच्छिन्नत्वञ्च सामानाधि करण्यमात्रम् | एवश्च तद्धर्माधिकरणयावत्साध्याधिकरणवृत्तिवे सति तद्धर्माधिकरणसमानाधिकरणाकञ्चिदवृत्तित्वमिति पर्यवस्यति । इयत् पुनरत्रावधेयम् । लक्षणं समस्तमेव । दूषकतावीजं तु क्वचि स्साध्या व्यापकत्वादिमात्रं कचिनिरुक्तमिति संक्षेपः | कचिन्महान. सत्वादीत्यादिपदमनास्थायां यः कश्चिदेव र्धमस्तादृशो विवक्षित