पृष्ठम्:न्यायलीलावती.djvu/५८६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

व्यायलीलावतीकण्ठाभरण-सविवृतिप्रकाशोद्भासिता ५०९ न्यायलीलावतीप्रकाशः 5 भ्यामेव व्यापकत्वग्रहोऽतिप्रसङ्गात् किन्त्वनुकूलतर्कात् स च ना. स्त्येव । अत एव पर्वतेतरद्रव्यत्वादिकमपि नोपाधिः पक्षधर्मावच्छि त्रसाधनावच्छिन्नसाधनावच्छिन्न साध्यव्यापकोपाध्योरपि साधनस्य साध्यव्यभिचारित्वं विशेषणाव्यभिचारिणि साधने विशिष्टव्यभिचा. रस्य विशेष्यव्यभिचारित्वनियमात् । अत एव नार्थान्तरं विशेषणा. वच्छिन्न व्यभिचारित्वेन हि ज्ञाने साधने विशिष्टव्यभिचारः सि· ध्यन् विशेष्यव्यभिचारमादाय सिद्ध्यति पक्षधर्मतावलात् । अन्यथा प्रतीतेरपर्यवसानात | सम्प्रदायावदस्तु यद्यावृत्त्या यस्य साधनस्य साध्यं व्यावर्त्तते स धर्मस्तत्र साधने उपाधिः । यथाऽग्निमत्त्व आर्द्रे- न्धनप्रभवत्वम् । एवं भावत्वण्यावृत्त्या प्रध्वंसे जन्यत्वानित्यत्वयोः स म्बन्धो व्यावर्त्तमानः पक्षधर्मताबलाद नित्यत्वाभावमादाय सि. द्ध्यति । यथा वायावुद्भूतरूपवत्वं व्यावर्त्तमानं द्रव्यत्वे सति प्रत्यक्षत्वं निर्वर्त्तयत् प्रत्यक्षत्वाभावमादाय सिद्ध्यति । अत एव बाधानुनीतपक्षे- तरत्वस्यानुपाघित्वं स्वव्याघातकत्वेन तद्यतिरेकस्य साध्याच्यावर्त्त- कत्वादिति संक्षेपः । अत एवेति । शब्दोऽनित्यः कृतकत्वादित्यत्र सा न्यायलीलावती प्रकाशविवृतिः इति । एतेन घटरूपं प्रत्यक्षं प्रमेयत्वादित्यत्रापि वहिर्द्रव्यत्वावच्छि नसाध्यव्यापकत्वमुद्भूतरूपवत्त्वमुपाधिरविकल इति विभावनीयम् । सच नास्त्येवेति । इदमुपलक्षणम् | अनुमानमात्रोच्छेदकत्वलक्षणतर्क पराघातोऽपि द्रष्टव्यः । अन्यथा सन्दिग्धोपाधेरपरिहारात् । विशे षणाव्यभिचारिणीति | विशेषणवतीत्यर्थः । पक्षघर्मताबलादिति । यद्यपि सा ध्यस्य पक्षसम्बन्धमात्रं तद्लात् सिद्ध्यति न तु व्यापकतावच्छे. दकानाश्रयोऽपि प्रकृते च विशेष्यव्यभिचारविशिष्ट व्यभिचार - योर्भेदात्तदनाश्रयत्वमेव विशेषव्यभिचारस्य तथापि विशेषणवति विशिष्टव्यापकव्यभिचारित्वादित्येवं विशेष्यव्यभिचारानुमितौ तात्प- र्यम् । अत एव विशेषणवत्त्वेत्यादिविशेषणं पूर्वे दत्तमस्माभिरन्यथा यथाश्रुत एव सामञ्जस्यादिति सत्प्रतिपक्षोत्थापकतापक्षमालम्ब्य लक्षणमाह - यथावृत्तेति । क्वचिदपि साधनवतीति भावः । तेन पक्ष वृत्तिरप्युपाधिः । यदि च करका पृथिवी कठिन संयोगवत्वादिस्यत्र सा. धनव्यापक मनुष्णाशीतस्पर्शवश्वमुपाधिस्तदा पक्षसाधनवदन्यतर