पृष्ठम्:न्यायलीलावती.djvu/५८७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५१० न्यायललिाबती कृतकत्वे साधने सावयवत्वम् । वैपरीत्ये वा नोपाधिः । स न्यायलीलावतीकण्ठाभरणम् नोपाधिः, कर्म्मादौ साध्याव्यापकत्वात् । वैपरीत्य इति । पटो ऽनित्यः सा. वयवत्वादित्यत्र कृतकत्वं नोपाधिः साधनव्यापकत्वादित्यर्थः । नन्वेतावता साध्यव्यापकत्वे साधनाव्यापकत्वमित्युपाधिलक्षणमुक्तं स्यात्, तच्च पक्षधर्मावच्छिन्न साधनधर्मावनिपाध्यव्यापकम् | न च तयोरनुपाधित्वमेव दूषकतावीजसत्त्वात् तदुक्तं वायुकसाध्यनि यमच्युताऽपि ऋथकैरुपाधिरुभाव्यः | पर्थ्यवसितं नियमयनदूषक- तावीजसाम्पादिति । किं च पक्षेतरत्वेऽतिव्याप्तिरत्र, किं च सकलपर. माणुनोच्छेदकतया स्वव्याघातकत्वेन व्यर्थविशेषणतया च सत्प्रति पक्षतया च दूषकत्वे पक्षे साध्यसदसत्वसन्देहेन साध्यव्यापकता. सन्देहा * * * पोपाधित्वमुचितं तथापि प्रकृतलक्षणं तत्रातिव्या पक्रमेव । किं च साध्यत्वं सिद्धिकर्मत्वं साधनत्वञ्च सिद्धिकरणत्व. मुभयमपि सोपाधौ न सम्भवतीत्यसम्भवो लक्षणदोषः । न च सा. ध्यसाधन सम्बन्धव्यापकत्वे सति साधनाव्यापकत्वमुपाघित्वम्, श. ब्दोऽभिधेयः प्रमेयत्वादित्यत्रा श्रावणत्वस्योपाधितापत्ते: पक्षधर्म्मागु. णत्वावच्छिन्नाभिधेयत्व सम्बन्धव्यापकत्वात् । जलं प्रमेयं रसत्वादि त्यत्र रससम्बन्धप्रमेय सम्बन्धव्यापकस्य पृथिवीत्वस्योपाधिताप त्तेः । प्रथमं साध्यसाधन सम्बन्ध व्यभिचारं साधयित्वा साधनस्य साध्यव्यभिचारसाधनेऽर्थान्तरत्वाच । केवललाध्ये हि विवादो न विशिष्टे । न च साध्यसमव्याप्तत्वे सति साधनाव्यापकत्वं तत्, विषम. व्याप्तस्यापि दूषकताबीज साम्येनोपाधित्वात् । ननु नायमुपाधिपदवा. व्यः, यद्धम्मोऽन्यत्र भासते स उपाधि | जवाकुसुमस्फटिकारुणिमा न च विषमव्याप्ते साध्यव्याप्यत्वं तेन तद्धम्मों हेतावारोग्यत इति चत् सत्यम्, समव्याप्ते मुख्यमुपाधिपद मिह तुव्याभिचारोनायकत्वगुणयो. गादू गौणमिति विशेषाद् यदभावो व्यभिचारविरोधी स उपाधिः सम. न्यायलीलावतीप्रकाशः वयवत्वं नोपाधिः साध्याध्यापकत्वात् । वैपरीत्य इति । पटोऽनित्यः सावयवादित्यत्र न कृतकत्वमुपाधिः साधनव्यापकत्वादित्यर्थः ।