पृष्ठम्:न्यायलीलावती.djvu/५८८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

न्यायलीलावतीकण्ठाभरण-सविवृतिप्रकाशोद्भासिता ५११ चायं क्वचिन्निश्चितोभयरूपः । [ यथा प्रमेयत्वे कृतकत्वम् । क्वचिन्निश्चितान्यतररूपः । यथा मैत्रतनयत्वे ( १ ) शाकाद्याहारप- न्यायलीलावतीकण्ठाभरणम् व्याप्त एव विषमव्या तस्याभावश्च न व्यभिचारविरोधी । शब्दोऽमि. त्यो गुणत्वादित्यत्र मेयत्वादेः साधनव्यापकतया अनुपाधित्वेन विष. मन्यातोपाध्यभावेऽपि जलपरमाणुरूपादौ व्यभिचारसत्वात्, किन्तु समव्याप्तं कृतकत्वमत्रोपाधिरिति न, तदभावो व्यभिचारसमाना. धिकरणः, किन्तु विरोधीति समव्याप्त एवोपाधिरिति चेत्, न, यत्- सत्वेऽनुमितिप्रतिबन्धस्तस्यैव दोषत्वात् । स च समव्याप्तोपाधिस. व इव विषमव्याप्तोपाधिसत्वेऽपि अविशिष्ट इति सोऽप्युपाधिरिति चेत्, अत्राहुः पर्थ्यवसितंसाध्यव्यापकत्वे सति साधनाव्यापकत्वमु पाधित्वम् | यस्य प्रयोजकस्य धर्म्मस्यावच्छेदेन साध्यप्रसिद्धिः, त दवच्छिन्नं पर्थ्यवसितम्, यद्यभिचारित्वज्ञानाधीनं साधनस्य साध्य व्यभिचारित्वज्ञानं तदुपाधिस्वरूपमिति मयूख विस्तरः | क्वचिदिति । उभयरूपं साध्यव्यापकत्वं साधनाव्यापकत्वम् | यथेति । यथा शब्दोऽनि त्यः कृतकत्वादित्यत्र कृतकत्वस्योपाधरुभय रूपनिश्चयात् अन्यतर रूपं साध्यव्यापकत्वं वैद्यकात् शाकाद्याहारपरिणामस्यौत्पत्तिक नरश्यामत्वरूपपर्य्यवसित साध्यव्यापकत्वनिश्चयात् चरमं रूपं सा. धनाव्यापकत्वम् । इदं लौहलेख्यं पार्थिवत्वादित्यत्र हीरके हेतौ स त्यपि प्रशिथिलसंयोगाभावात् सावनाव्यापकत्वनिश्चयः, व्यभिचार- शङ्काधायकत्वे सन्दिग्धोपाघेरपि दूषकत्वात् सन्दिग्धानैकान्तिकवत् । तद्भावना नर्हत्वेऽपि स्वार्थानुमाने दोषत्वध्रौव्यात् सन्दिग्धोपाध्यु- न्यायलीलावतीप्रकाशः निश्चितेति । साध्यव्यापकत्वं साधनाव्यापकत्वं चेत्युभयम् | यथेति । यथा शब्दोऽनित्यः प्रमेयत्वादित्यत्र कृतकत्वमुपाधिः । निश्चितोभयरूप इत्यर्थः । निश्चितान्यतरेति । निश्चितसाध्यव्यापकत्वरूप इत्यर्थः । यथेति । 'स श्यामो मित्रातनयत्वादित्यत्र शाकपाकजत्वं वैद्यकान्मनुष्यश्याम- त्वेन तस्य कारणत्वावगमेन साध्यव्यापकतानिश्चयात साधनाव्या. ( १ ) नये शा० ।