पृष्ठम्:न्यायलीलावती.djvu/५९०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

न्यायलीलावतीकण्ठाभरण- सविवृतिप्रकाशोद्भासिता १ भीयते च बाधव्यभिचारानुकूलतर्का भावप्रतिकूलतः, यथा दह- नेतरत्वं कृतकत्वे, प्रमेयत्वे कृतकत्वम् | मैत्रतनयत्वे शाकाद्याहा- रपरिणतिः । उपलभ्यमानस्पर्शत्वे चाक्षुषत्वमिति ॥ [ इति ] व्याप्तिः ॥ न्यायलीलावती प्रकाशः साधनत्वश्च स्वव्याघातकत्वान्नोपाधिरित्यर्थः । बाधेति । बाधो हि पक्षा- भिमत एव व्यभिचारः । तत्र चोपाधिरावश्यक इत्यर्थः । एतच्च हेतु. मति पक्षाभिमते द्रष्टव्यम्, धूमेन हदेऽग्निसाधने तदभावात् । व्यभिचा. रेति । यद्यपि व्यभिचारादेव तत्रागमकत्वनोपाध्युन्नयनं निष्फलत्वात् तथापि व्यभिचारिण्येकत्र साधने साध्यतदभावयोर्विरोधनावच्छेदक- भेदं विना तदुभयसम्बन्धाभावादवइयं साध्य सम्बन्धितावच्छेदक रूपमुपेयम्, तदेव तत्रोपाधिः । अत एव व्यभिचारे चावश्यमुपाधिरि त्याचार्याः । अनुकूलेति । ‘तदसत्त्वे' व्याप्स्यसत्त्वे व्यभिचारात्तत्र चोपाधे- रावश्यकत्वादित्यर्थः । अत्र क्रमेणोदाहरणान्याह – यथेति । तेजो ऽनुष्णं कृतकत्वादित्यत्राऽतेजस्त्वं बाधोनीत उपाधिः । शब्दो नित्यः प्रमेयत्वादित्यत्र व्यभिचारदर्शनात् कृतकत्वमुपाधिः । स श्यामो मैत्र तनयत्वादित्यत्र शाकपाकजकत्वमुपाधिः । शब्दो नित्यः प्रमेयत्वा दित्यत्र व्यभिचारदर्शनात् कृतकत्वमुपाधिः | बायूरूपवानुपलभ्य मानस्पर्शाधिष्ठानत्वादित्यत्र प्रतिकूलतन्त्रेयश्चाक्षुषत्वमुपाधिः । प्रतिकूलतर्कश्च यद्ययं रूपवान् स्यात् द्रव्यत्वव्याप्य चाक्षुषजातिमान् स्याऽदित्येवंरूपः । न्यायलीलावतीप्रकाश विवृतिः स्याप्रतिबन्धकत्वेण्यदोषः । तदेव तत्रोपाधिरिति । तथा चोद्भावितव्यभि चार एव उपाधि बिना दुरुपपाद इति तत्र व्यभिचारोन्नयनमिति भावः । अत्रैव वृद्धसम्मतिमाह- -अत एवेति । तत्फक्किकया हि व्यभिचारव्याप्यत्वमुपाधेदर्शितं तत्प्रदर्शनं च तदैव सफलं यदि व्यभिचारेणोपाध्युन्नयनमिति भावः । अनुकूलतर्कस्य पूर्वप्रक्रान्तत्वा- तू प्रसङ्गत्या मूले तर्कविचारः । ननु व्याप्यस्येत्यादि मूले नास्ती-