पृष्ठम्:न्यायलीलावती.djvu/५९१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

न्यायलीलावती अथ कस्तर्क: । एकधर्माभ्युपगमे द्वितीयस्य नियतप्राप्ति- न्यायलीलावतीकण्ठाभरणम् - अनुमानं निरूप्य तदितिकर्त्तव्यताभूतं तर्फे निरूपयति - अथेति । एक. स्य धर्मस्य व्याप्यस्याभ्युपगमे द्वितीयस्य व्यापकस्य प्रसङ्गरूप इत्य र्थः । व्याप्यारोपाधीनो व्यापकारोप इति भावः । आरोपश्चायमाहार्यो परि रक्षितः । तेनासदर्थानुमितौ नातिव्याप्तिः । तर्कयमीतिप्रतीति- साक्षिको जातिविशेष एष वा तर्कत्वम् | सच सर्वत्र मानस एव । यद्वा अव्यवस्थिताभ्युपगम्यमानकोट्युपाधिकानिष्टसत्त्वप्रतिसन्धानं तर्कः । व्याप्यारोपत्वावच्छिन्न कारणता प्रतियोगिकव्यापकतारोपो वा असदर्था. न्यायलीलावतीप्रकाशः एकधर्मेति । एकस्य धर्मस्य व्याप्यस्य यस्याभ्युपगमे द्वितीयस्य व्यापकस्या. रोप इत्यर्थः । नियतेत्यनेन धर्मयोध्र्याव्यव्यापकभावः सूचितः । नन्वेत. दसदर्थानुमितावतिव्याप्तम् । न च व्यापकाभाववत्तया ज्ञाते व्याव्या- रोपात् व्यापकारोपः सः । या हि द्रव्यं शङ्खतयाऽवगम्य पीतः शङ्को. ऽयं न तु शुक्ल इति प्रत्यक्षतोऽवगच्छतः शङ्खत्वाच्छुक्ल इत्यनु. मितिः, तत्राऽतिव्याप्तिः । नापि तर्कयामीति प्रतीतिसाक्षिको जातिभेदस्तल्लक्षणं इन्द्रियादिनिरपेक्ष मनोज न्यत्वाच । न चाक्षुषत्वा- दिना जातिसङ्करः | तर्कविषयवैलक्षण्यानुभवात् । तत एव व्यव. हारायुपपत्तौ तत्र मानाभावात् । अन्यथा घटज्ञानत्वादेरपि जाति- त्वापत्तेः । अत्राहुः, अव्यवस्थिताभ्युपगम्यमानकोटयुपाधिकानिष्ट न्यायलीलावतीप्रकाशविकृतिः त्यत आह—नियतेत्यनेनेति । द्रव्यं शङ्खभिन्नमशुक्लमिति यावत् | तेन शुक्लत्वानुमितेरारोपरूपतयाऽतिव्याप्तिः सङ्गच्छते । इन्द्रियादीति | मा- नसत्वव्याध्यैवेयं जातिरिति भावः । अव्यवस्थितेति । अत्राऽनिष्ठत्वं बा. घितत्वम्, अभ्युपगम्यमानत्वं च प्रतीतिविषयत्वम् । तथा चया हि द्रव्यमित्यादिपूर्वोक्तानुमितावतिव्याप्तिवारणाय अव्यवस्थितेति तत्प- देन चाहार्यत्वलाभः | इष्टापादनेऽतिव्याप्तेराह - अनिष्टेति । केचित्तु स्वानभ्युपेतपराभ्युपगत कोट्युपाधिकानिष्टप्रतिसन्धानं तर्क इति उक्तवाक्यार्थ इति वदन्ति, तन | स्वार्थानुमित्यनुकूलतर्काव्याप्तेः । इदं च विपर्ययपर्यवसायितर्क सामान्यलक्षणमतोव्याप्येनाव्यापका --