पृष्ठम्:न्यायलीलावती.djvu/५९३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

न्यायलीलावती तिर्वा तन्म्यूनता वा । नायः । अनुमानादेव तत्सिद्धेः । न द्विती न्यायलीलावतकण्ठाभरणम् शङ्कानिवृत्तिरित्यर्थः । तन्न्यूनतेति | साध्याभावकोटिकशक्तोत्कटकोटि- कत्वनिवर्त्तनं वा तर्कफलमित्यर्थः । अनुमितिकथने तवैतत् सर्वमिति तर्कों निष्फल एवेति विकल्पत्रमनिरास इत्याह नाद्य इत्यादिना अनु. न्यायलीलावतीप्रकाशः भयकोटौ साध्याभावकोटिगोचरजिज्ञासानिवृत्तिरित्यर्थः । ननु सा. ध्याभावनिश्चयोऽनुमिति प्रतिबध्नाति । ननु तजिज्ञासापि, तत्कि तद्वि- च्छेदेन, मैवम् | साध्याभावविषयत्वस्यैवानुमिति प्रतिबन्धकवयाधिक. स्य व्यर्थत्वात् । तथा च साध्याभावजिज्ञासासत्त्वेऽपि नानुमितिः स्यादतस्तनिवर्त्तनमेव तर्कफलमिति भावः । शङ्केति | साध्यसाध्याभाव. योस्तुल्यवत्संशयनैकत्र प्रमाणप्रवृत्तिः सम्भवतीति तश्रीिवर्त्तनामेत्यर्थः । तन्न्यूनतेति । साध्याभावकोटावनिष्टप्रसञ्जनेन तत्को टेहनत्वमित्यर्थः । अनुमानादेवेति । वस्तुतो विरोधिजिज्ञासा नज्ञानमात्रप्रतिवन्धिका, घट- जिज्ञासुना चक्षुरुन्मीलनानन्तरं पटस्यापि ज्ञानात | नाप्यनुमितेः । तृतीयलिङ्गपरामर्थानन्तरं विरोधिजिवासयाऽनुमितौ विलम्बाभावात् । अथ साध्यैककोटिका जिज्ञासाऽनुमितिहेतुः । सा तर्केण को- ट्यन्तरेऽनिष्ठमुपदर्शयताऽनिष्टजिज्ञासा प्रतिबन्ध जन्यते । सति तृतीयलिङ्गपरामर्षे तादृशजिज्ञासाया अन्वयव्यतिरेकाभावा- न्यायलीलावती प्रकाशविवृतिः तत्र । प्रमाणं तथापि न्यायमतानुसारेणेदम् । वस्तुतोऽनुमित्यात्म केऽपि तस्मिन् परोक्षशानाद्यात्मकताइशारोपजन्यत्व मस्त्येवेत्युभयसाधारण- मेवेदं कार्यतावच्छेदकप्रतीत्पप्रतीति विकल्पदोषादम्य इत्युक्तम् । साध्याभावविषयत्वस्येति । यद्यपीदं संशये अतिप्रसक्तं तथापि संशयभि नोक्तविषयत्वमेव त्रिरोधितावच्छेदकं लाघवात, कामिनीजिज्ञासादि. प्रतिबन्धकत्वानुरोधाच्चेति भावः । नन्वेवमन्योन्याश्रयः विरोधिजिज्ञा. सानिवृत्तावनुमानप्रवृत्तिनुमानेन च जिज्ञासानिवृत्तिरित्यत आह - वस्तुत इति । कामिनीजिज्ञासादेस्त्वनन्यगत्या तत्वेनैव प्रतिबन्धकत्व- मिति भावः । अनुमाने फलीभूतनिश्चयपरत्वे उक्तान्योन्याश्रयभया