पृष्ठम्:न्यायलीलावती.djvu/५९४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

न्यायलीलावतीकण्ठाभरण-सविवृतिप्रकाशोद्भासिता ५१७ यः । अनुमानवैयर्थ्यात् । निवयार्थ ( १ ) तदिति चेत् । न । तत एव शङ्कानिवृत्तेरपि सिद्धेः । न तृतीयः | न्यूनाया अन्यूनाया वा अनुमाननिवर्तनीयत्वेन तन्न्यूनत्वापायन ( २ ) वैयर्थ्यात् । ननु अनुमानं (३) करणत्वेन व्यापारतया तर्कमपेक्षत इति चेत् । न । दात्रादौ दृढमुष्टिनिष्पीड नादिव्यापारव्यतिरेके छिदानुपप- त्तिवतर्कज्ञानं विना लिङ्गादनुमितिव्यतिरेकादर्शनात् । स्वज्ञानं न्यायलालावतीकण्ठाभरणम् मानवैयर्थ्यादिति वैयर्थ्य प्रसङ्गादित्यर्थः । निश्चयार्थमिति । शङ्कोनिवृत्ते- निश्चयार्थत्वादित्यर्थः । अनुमितौ लिङ्गपरामर्षे सति विलम्बाभावान तस्य व्यापारतेत्याह – दात्रादाविति । अन्यथासिद्धि मध्याह-स्वज्ञानमिति । न्यायलीलावतीप्रकाशः दिति भावः । 'तत एव' अनुमानादेवेत्यर्थः । न्यूनाया इति । न्यूनको- टिकशङ्कानिवर्त्तनाथमप्यनुमानस्यावश्पकत्वादित्यर्थः । अनुमानमिति | तृतीयलिङ्गपरामर्ष इत्यर्थः । दात्रादाविति । वस्तुतो व्याप्ति- ग्राहकस्य विषयपरिशोधकस्य वा तर्कस्य परामर्षाजन्यत्वान्नेदं युक्त मिति भावः । स्वज्ञानं वेति । परामृष्यमाणं लिङ्गमनुमितौ करणं तेन लिङ्गस्य सविषयः परामर्षो व्यापार इत्यर्थः । यद्यप्यनुमितौ लिङ्गस्याऽ. तीताsनागतसाधारण्येन कारणत्वमेव नास्ति तथाप्यनुमितौ व्या- व्यज्ञानमात्रं प्रयोजकं नतु व्याप्यविशेषज्ञानम् । तथा चाडतीतादिलिङ्ग- स्थले धूमादिप्रागभावध्वंसयोर्लिङ्गत्वं तयोश्च विद्यमानत्वमिति भावः । न्यायलीलावती प्रकाश विवृतिः दाह – अनुमानादेवेति । लिङ्गपरामर्षादेवेत्यर्थः । अनुमानस्येति । लिङ्गपरा- मर्षस्येत्यर्थः । विषयपरिशोधकस्य वेति । यद्यपि तत्र तर्के ग्राह्याभावज्ञान. तथा परामर्षस्य जनकत्वादिदमयुक्तं तथापि स्वारासकजिशासादि. विरहस्थले तर्क विनैवानुमितिरिति व्यभिचारादेव न तर्कस्य व्या. पारत्वमिति मूलोन्नतिमेव रमणीयम् । तयोश्च विद्यमानत्वमिति । यद्यपि धूमध्वंसादेविंद्यमानत्वेऽपि धूमज्ञानादेव यत्रानुमितिस्तत्र न तया: पारता तथापि व्याप्यमात्रस्यैव व्याप्यज्ञानमात्रं व्यापार इति कारण ( १ ) ० निर्णयत्वं (२) ० पादन | ( ३ ) ० ● मानकरण ● । C