पृष्ठम्:न्यायलीलावती.djvu/५९५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

न्यायलीलावती वा लिङ्गस्यावान्तरव्यापारः स्यात्तदनुपकारकं नेदमनुमानाङ्गम् । अत्रेोच्यते । अनुमानानुकूलप्रतिबन्धनिश्रयोत्पत्तौ व्यभिचारश- कानिवृत्तिद्वारेणास्योपयोगात् । स चायमाहार्यारोपरूपः । आ- न्यायलीलावतीकण्ठाभरणम् लिङ्गमेव कारणं तज्ज्ञानं व्यापार इत्यर्थः । अनुमानेति । व्यभिचारशङ्का. विरहसहकृतं सहचारदर्शनं व्याप्तिग्राहकं सा च तर्केणापनीयत इत्यर्थः । व्याप्तिग्रहे तर्कांपेक्षया तर्कमूलव्याप्तिग्रहेऽपि तदपेक्षा क्या- दित्यनास्था | क्वचित्तदनपेक्षायां व्यभिचारात्तर्कस्य कारणतैव न स्या- दित्यदेश्यं शङ्कगनिवृत्तावेव तदुपयोगात् । क्वचिद् व्याघातात् शङ्कव नावतरति । न हि धूमार्थ वह्निमुपाददानो वह्नि विनापि धूमः स्यादिति शङ्कते। यद्यप्यनौपाधिकत्वग्रहो व्याप्तिग्राहक इत्युक्तं तथापि तत्रापि तर्क एव उपाय इति भावः | तर्कस्याविद्यात्वं व्युत्पादयन्नेव पूर्वोत. धर्म्मलक्षणेऽसदर्थानुमितावतिव्याति परिहरति - स चायमिति | व्याप. न्यायलीलावतीप्रकाशः अनुमानानुकूलेति । व्यभिचारशङ्काविरहसहकृतं सहचारदर्शनं व्याप्ति ग्राहकम्, साच तर्केणानिष्टमुपदर्शयता निवर्यंत इति व्याप्ति हे तर्क स्योपयोग इत्यर्थः । ननु तर्कमूलभूतव्याप्तिशानं तर्क विनैव तर्कान्त राद्वा । आद्ये व्यभिचारान तर्कस्तत्र हेतुः, अन्त्येऽनवस्था | मैवम् । न न्याय लीलावतीप्रकाश विवृतिः त्वानुपपश्यैव कल्पनीयमिति भावः । वस्तुतो व्याप्तिस्मृतिरेव पराम र्षव्यापारिकाकरणमिति व्यापारानुरोधेन तर्ककारणतेतिभावः । व्यभिचारशङ्काविरहेति । यद्यप्यव्यभिचाररूपव्याप्तिग्रहे सा शङ्काग्राह्यसं. शयपर्यवसनसत्वेना प्रतिबन्धिका, अन्यथा विषयपरिशोधकस्यापि शङ्कानिवृत्तिफल मिति कित्रोक्तम् । किञ्च तथा सति शान्देऽपि यो ग्यतासंशयः प्रतिबन्धकः स्यात् तथाप्यन्वयव्यतिरेकाभ्यां व्याप्ति- ज्ञाने व्यभिचारशङ्काग्राह्य संशयपर्यवसन्ना तदपर्थवसन्ना चान्योन्या- भावगर्भव्याप्ति गहेऽत्यन्ताभावादिगर्भाप्रतिबन्धि कैवेति ला तकीपनेया शाब्दे तु न संशयः कथमपि प्रतिबन्धक इत्यपि फलंबलादेवावसी यते । प्रत्यक्षे तु संशये सवि विना विशेषदर्शनं न ज्ञानमिति तत्र वि. शेषदर्शनापेक्षेति फलानुरोधादेव निश्चीयते । वस्तुतो विषयपरिशो-