पृष्ठम्:न्यायलीलावती.djvu/५९६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

J न्यायलीलावतीकण्ठाभरण-सविषृतिप्रकाशोद्भासिता ५१९ रोषित हेतुसमुस्थत्वात् बाधितविषयत्वाच्च कोटिद्वयोपनिपाते न्यायलीलावतीकण्ठाभरणम् कारोपभाग इत्यर्थः । आरोपितेति । आहार्य्यारोपविषयो व्याप्यधी. सस्वादित्यर्थः । ननु यद्ययं निर्वह्निः तन्तुना निर्जल: स्यान्नह्युपहितो. ऽर्थः सत्य एव तथा च कथमवयविनेत्यत आह - कोटिद्वयेति । एकको न्यायलीलावतीप्रकाशः हि तर्के व्याप्तिज्ञानस्य हेतुत्वं ब्रूमः किन्तु व्यभिचारशङ्कानिरासे स च क्वचित् तर्कात् क्वचिद् व्याघातात् शव नावतरति । तथाहि - यदि वहीतराजन्यो धूमो वहयजन्यः स्यादजन्यः स्यादित्यत्र तर्फे कारणं विनैव कार्य स्यादवह्वेरेव भविष्यतीति शङ्कया भवितव्यम् । उभय- थापि स्वक्रियाघातः | यदि हि कारणं विना कार्योत्पत्ति शङ्केत कथं परप्रतिपस्यर्थ वचने प्रवर्त्तत ? यदिचाऽवहरेव धूमोत्पत्ति शङ्केत कथं नियमेन धूमार्थं वह्निमुपादत्त इति भावः । यद्यप्यनौपाधिकत्व. ग्रहो व्याप्तिग्राहक इत्युक्तं प्राक् तथाप्ययोग्योपाध्यभावग्रहो न यो म्यानुपलम्भादिति तद्ग्रहार्थमपि तपक्षणीय इत्यविरोधः, तस्या न्यायलीलावतीप्रकाशविवृतिः धकस्यापि जिज्ञासानिवृत्तिद्वारा उपयोगः | कामिनीजिज्ञासास्थले- विरोधिविषयकजिज्ञासात्वेन प्रतिबन्धकत्वकल्पनात् | साध्याभाव. जिशासाया अपि प्रतिवन्धकत्वात् । न च परामर्षादेव शङ्कानिवृत्ति. रिति मूलनिवृत्तौ जिज्ञासाया अपि निवृत्तेः कि तर्फेणेति वाच्यम् । स्वारसिकशङ्कानिवृत्तावपि विरोधिप्रमाणसद्भावानुबन्धनशङ्कायाः सुलभतया जिशासाया अपि सुलभत्वात् । अतएवोक्तमाचार्येण- विरोधिप्रमाणसदसद्भावावधारणव्यग्रतया मुहूर्त्तमनुमितौ विलम्बत इति गुणकिरणावल्यां कुसुमाञ्जलावण्युक्तम् । तेन हि प्रवर्त्तमानेन जि. झांसा विच्छिद्यते विच्छिन्न प्रतिपक्षे छश्च निरालम्वं लिङ्गमधितिष्ठती- त्यादि तस्मात्प्रयोजकत्वं तर्कस्येति । कारणं विनेति । इयमेव शङ्का मूली. भूतव्यातिग्रहपरिपन्थिनी । अपरा तु पराभिमतविपर्यय पर्यवसानौप. यिकपक्षविशेषपरिपन्थित्वनाशङ्किता वह्निमुपाददते | उपादानकार. णीभूताइन्वयव्यतिरेकानुविधायित्वज्ञानं तत्रेत्यर्थः । यद्यपीति । यद्यप्य- नौपाधिकत्वं लिङ्गतया ग्राहकं प्रागुक्तं प्रत्यक्षे तु व्यभिचारज्ञानविर हादिरेव जनकस्तथापि तुभ्यतु दुर्जन इति न्यायेनेदमुक्तम् । नियत- । -