पृष्ठम्:न्यायलीलावती.djvu/५९७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५२० न्यायलीलावती चैक कोटिपरिग्रहस्य यद्यर्थत्वात् । तथापि किं भूयोदर्शनापेक्षया, व्यभिचारसन्देहस्य तत्रापि सन्चात | विपक्षे (१) बाधकस्यैतदभावे- ऽपि तुल्यत्वात् । उपाध्यभावस्य चानुकूलतर्कवेद्यत्वादिति चेत् । न्यायलीलावतीकण्ठाभरणम् ट्यभ्युपगममात्रं "यदि "शब्दो दर्शयतीत्यर्थः । तथापीति | तर्कश्च व्याप्ति. ग्राहकः, स सकृद्दर्शन विशिष्ट एवेति किं भूयोदर्शनेनेत्यर्थः । यथा सक्कदर्शनं व्यभिचारिसाधारण्यं तथा पार्थिवत्वलौहलेण्यत्वादी भूयो- दर्शनमपि । किं च भूयांसि दर्शनानि भूयः स्वस्थानेषु दर्शनं वा भूयसां दर्शनं वा तत्सर्व्वे त्रिचतुरादिसाधारण्येन दर्शनानां सहानवस्थान. दर्शनेन चानुपपन्नमिति भावः । एतदभाव इति । भूयोदर्शनाभाव इत्यर्थः । न्यायलीलावतीप्रकाशः - - विद्यायामन्तर्भावमाह-सचायमिति । कोटियेति । अनियते कोटयुपनिपाते नियतकोटिपरिग्रहो यदि स्यादित्यत्र यदिशब्दार्थ इत्यर्थः । सकृद्दर्श नग्राह्या व्याप्तिरित्याह - तथापीति । ननु तथापि सकृत्सहचारदर्शनस्य व्यभिचारिसाधारणतया व्यभिचारशङ्काधायकत्वात्तन्निरासाथै भूषो- दर्शनापेक्षत्यत आह - व्यभिचारेति । भूयो दर्शनेऽपि पार्थिवत्वलोह लेख्यत्व- योमिचारात्तच्छङ्का धायकत्वादित्यर्थः । ननु विपक्षवाधकाज्र्योदर्श. नाविशेषेऽपि शङ्कानिवृत्तिः स्यादित्यत आह - विपक्षवाधकस्येति । आव. श्यकत्वाल्लाघवाच तदेव व्याप्तिग्राहकमस्तु किं भूयोदर्शनेनेत्यर्थः । न च भूयोदर्शनं विना विपक्षवाधकस्तर्क एव नावतरति व्युत्पन्नस्य प्रथमदर्शने तद्वतारात् । ननु चानौपाधिकत्वज्ञानं व्याप्तिग्राहकं तद्दे शकालतत्रावस्थितघटादीनामुपाधित्वशङ्कानिरासे स्यात् । तच्छङ्का निरासश्च कस्यचित् साध्याव्यापकत्वज्ञानात्, कस्यचित् साधनव्या- पकत्वज्ञानान स्यात् | तश्च न भूयोदर्शनं विनेत्यत आह - उपाध्यभाव. स्य चेति । अयोग्योपाध्यभावस्य योग्यानुपलब्ध्यग्राह्यत्वेनानुमानार्थान ज्ञानत्वेनानवस्थापत्तेरनुकूलतर्कस्यावश्यकतया तत एवानीपाधिक त्वनिश्चय इत्यर्थः । किश्च भूयोदर्शनानां प्रत्येकं व्याप्तिग्रहा हेतुत्वान्मि. लितानां तद्वाच्यम् | न चाशुतरविनाशिनां क्रमिकाणां मेलकं भवति ( १ ) विवज्ञवा ० । |