पृष्ठम्:न्यायलीलावती.djvu/५९८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

व्यायलीलावतीकण्ठाभरण- सविवृतिप्रकाशोद्भासिता मैवम् । प्रथमतो नियतसंवेदनाभावात् | अन्यथोत्तरत्र सन्देहा (१)- नुपपत्तेः । ब्राह्मणत्वरत्नत्वसा ( २ ) दृश्यानां तथा सत्यवभासे उ त्तरकालं मचुर (३) दर्शनस्य विपरीतशङ्कामात्र विच्छेदफलताप - तेः । भूयः साहित्ये तु नियतसंवेदनव्यवस्थितौ तत्प्रामाण्य एव न्यायलीलावतीकण्ठाभरणम् उपाध्यभावग्रहार्थमपि न तदपेनेत्याह- उपाधीति । प्रथमत इति । यद्यपि प्रथमदर्शनमात्रेणापि व्याप्तिग्रहोऽनुपलम्भबाधित एव, तथापि तत्- कल्पने तदुत्तरं व्याप्तिसंशयो न स्यादेवेत्यर्थः । ननु व्याप्तिग्रहः प्रथ- मदर्शनत एव, व्यभिचारशङ्का तु भूयोदर्शनापनेयेत्यत आह - ब्राह्मण- स्वेति । तर्हि ब्राह्मणत्वानामपि प्रथमदर्शनवेद्यत्वमेव स्यान्न च तथा भ्युपगमो वस्तुस्थितिर्वेत्यर्थः । ननु भूयोदर्शनानन्तरमपि संशयता- दवस्थ्यमित्युक्तमत आह - भूय इति । भूयस्त्वं त्रिचतुरादिसाधारण्ये नाऽननुगतमपि तर्कावतारक्षेमदर्शनत्वेनानुगतं सद् व्याप्तिग्रहहेतुरि ति, तदनन्तरमपि व्याप्तिसंशयश्चेत् तदा नूनं तज्ज्ञानप्रामाण्यसंश- याधीन एवेत्यर्थः । सकृद्दर्शन ग्राह्यत्वं तु शंकाकदर्थितमेवेति भावः । ननु स्वभावोऽधिकरणस्वरूपम्, अधिकरणं च धूमादिस्तथा च सकृ. न्यायलीलावतीप्रकाशः भूयस्त्वस्य त्रिचतुरादिभावेनाऽननुगमः । न च व्याप्तेः सकृद्दर्शनग्राह्य- त्वे सहचारादर्शनात्तत्र संशयो न स्यादिति वाच्यम, ज्ञानप्रामाण्य संशयात्तत्र संशयस्योपपत्तेरिति भावः । कात्स्यैन सम्बन्धो व्याप्ति रित्यभिप्रेत्याह- - प्रथमत इति । सामग्रीवैकल्यादित्यर्थः । बाधकमाह - अन्यथेति । विशेषादर्शन सहचारादिसाधारणधर्मदर्शनाद्यभिचारसं. शये प्रथमदर्शनाश व्याप्तिनिश्चय इत्यर्थः । ननु भूयोदर्शनमपि संशा- यकमित्युक्तमित्यत आह - भूय इति । न चैतद्याप्तेः सकृद् शनगम्यत्वेऽपि न्यायलीलावतीप्रकाश विवृतिः कोटयुपग्रहो निर्वह्नित्वादिकोट्यभ्युपगमः । न चैतड्याप्तेरिति । सकृद्दर्श- नेनापि व्याप्तिगृहीतैवोत्तरकालन्तु ज्ञानप्रामाण्य सन्देहादेव सन्देह ( ३ )० प्रचुरतरन] १ । 2 ( १ ) ० नियतसन्देहानु । ( २ ) ० णत्वकठत्वादिसा U