पृष्ठम्:न्यायलीलावती.djvu/६००

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

न्यायलीलावतीकण्ठाभरण- सविवृतिप्रकाशोद्भासिता ५२३ तदेतद्व्याप्तिस्मृतिपक्ष धर्मता संवेदनात्मकमन्याननुभवात् का र्यस्यास्मादेवोपपत्तेः । न च लिङ्गसंवेदनं वस्तुतस्तद्विषयं विदू- रात्तद्विशेषानवभासेऽजनकम्, लिङ्गत्वोल्लेखितया तु जनक मेकवेद- नमेव पर्यवस्यतीति वाच्यम् | नियमसंवेदनपुरस्कृतजात्युल्ले- न्यायललिावतीकण्ठाभरणम् अत्र तृतीयलिङ्गपरामर्षमसहमानो मीमांसकः प्रत्यवतिष्ठते- तदेतदिति । अनुमानमित्यनुषज्यते । अन्येति । अन्यस्य तृतीयपरामर्ष- स्याऽननुभवादिस्यर्थः । कार्य्यस्यानुमितेः, अस्मादेव व्याप्तिस्मृत्यन न्तरभाविपक्षधर्म्मताज्ञानादेवेत्यर्थः । तथापि विशिष्टपक्षधर्मताज्ञा नमनुमानमिति न प्रमाणमित्यर्थः । ननु यत्र धूमो वस्तुत्वादिना स्फुरति देवाच्च व्याप्तिस्मृतिस्तत्राप्यनुमितिः स्यादित्याह - न चेति । लिङ्गत्वांल्लखितया एकवेदनं व्यातिविशिष्टपक्षधम्मंता वेदनमित्यर्थः । नियमेति । यद्धर्म्मोपग्रहेण व्याप्तिर्गृहीता तद्धर्म्मावच्छेदेन लिङ्गग्रहणं 1 ● --- न्यायलीलावतीप्रकाशः नस्य भूयोदर्शनानां मिथोऽसहभावेऽपि तज्जनितः संस्कार एवे. न्द्रियसहकृतो व्याप्तिग्राहक | इयञ्च प्रत्यक्षेण व्याप्तिग्रहे साम ग्री, नतु सर्वत्र आप्तवचनादपि तद्ग्रहादिति संक्षेपः । पक्षधर्मस्य व्यातिविशिष्टत्वेन ज्ञानमनुमितिहेतुरिति मतमाक्षिपति- तदेतदिति । अनुमानमित्यनुषज्यते । व्याप्तिस्मृतिः पक्षधर्मतया लिङ्गस्य ग्रह इत्येवानुमितिहेतुलघवादावश्यकत्वाच्च, तृतीयलिङ्गपरामर्षेsपि तयोर्हेतुत्वादित्यर्थः । न च प्रमाणवतो गौरवस्यापि न्याय्यत्वमि स्थत आह -अन्येति । अन्यस्य तृतीयलिङ्गपरामर्षस्याननुभवादित्यर्थः। मनु यत्र दूरात्किचित्वेन धूमो ज्ञायते दैवाच्च वह्निव्याप्यो धूम इति स्मरति तत्रापि व्याप्तिस्मृतिसहकृतपक्षघर्मताज्ञानमस्तीत्यनु. मितिः स्यादित्याशय निराकरोति-न चेति । नियमेति । व्याप्यताव न्यायलीलावती प्रकाश विवृतिः उतक्रमेण कदाचित् भूयोदर्शन हेतुतामालम्ब्याह - भूयोदर्शनानां चेति । आप्तवचनादपीति | धूमाधिकरणे धूमसमानाधिकरणात्यन्ताभावाप्रति. योगियघधिकरणत्वमित्येवंरूपादिस्यर्थः । धूमो वहिव्याप्य इत्येवं -