पृष्ठम्:न्यायलीलावती.djvu/६०१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भ्यायलीलावती खादेबोपपत्तेः । अन्यथा परामर्शेऽप्युपप्लवात् । न च पक्षधर्म- तासंवेदनं हेतोरेव जातमित्युपनयस्य पिण्डित (१) विषयतेति वा च्यम् | तस्य पराङ्गता (२) लिङ्गमात्रविषयत्वादिति कोचित् । तन्त्र | ५२४ न्यायलीलावतीकण्ठाभरणम् व्याप्तिस्मृतिश्चेति द्वयमेवानुमितिहेतुरित्यर्थः । अन्यथेति । किञ्चित्त्वेन यत्र धूमग्रहस्तत्र परामर्ष एव किं न स्यादित्यर्थः । तथा च या तव परामर्षसामग्री सैव ममानुमितिसामग्रीति भावः । हेतोरेवेति । हेत्वव यवादेवेत्यर्थः । पिण्डितविषयत्वं विशिष्टविषयत्वम् । तस्येति । हेत्ववय. वस्य परार्द्धतापनत्वं साधनत्वमात्रविषयत्वमित्यर्थः । यद्वा हेत्वव यवत्वेन साधनत्वेन लिङ्गमुपस्थितं लिङ्गतापनत्वं पक्षधर्म्मत्वमात्रं बोध्यते तथा च तस्येत्युपनयस्येत्यर्थः । व्यभिचारशङ्काया एव पक्षीयधूमे व्याप्यशङ्काया अनुमितिप्रतिबन्धकत्वात् वह्निव्याप्योऽय. न्यायलीलावतीप्रकाशः च्छेदकप्रकारेण धूमत्वादिना पक्षधर्मस्य ज्ञानं व्याप्तिस्मृतिसहकृत- मनुमितिहेतुः । न च किञ्चित्त्वं तथा । अन्यथा तवाऽपि तत्र तृतीय- लिङ्गपरामर्षः किं न स्यात् सामग्रीसत्त्वादित्यर्थः । ननूपनयं न्याया वयवमिच्छता तत्प्रयोजनं तृतीयलिङ्गपरामर्षोऽनुमन्तव्यः । न च पक्षधर्मताप्रतिपादनमेव तदर्थः, तस्य हेतुवचनादेव जातत्वादित्यत आह - नचेति । पिण्डितविषयता - व्याप्तस्य पक्षधर्मताविषयतेत्यर्थः । तस्येति । पराङ्गतापनं साधनत्वमात्रतात्पर्यकम् । तथा च लिङ्गवचनेन हेतुस्वरूपमात्रं प्रदर्श्यते नतु तस्य पक्षवृत्तित्वमपीति तस्य पक्षधर्म न्यायलीलावती प्रकाश विवृतिः - रूपशब्दजन्ये तु पदार्थज्ञानत्वेन सहचारज्ञानस्यापेक्षणीयत्वादिति । तस्य हेतुवचनादेवेति । हेत्ववयवे सम्बन्धवाचकमतुवादिप्रयोगादिति भा वः । पराङ्गतापन्नत्वं यदि पक्षे विशेषणत्वं तदा पक्षघर्मताप्रतिपादक मेवोक्तमिति विरोध: स्यादित्यत आह - साधनत्वमात्रेति । लिङ्गवचनेन हेतु- स्वरूपमात्रमिति | हेतुविशिष्टमात्रं न तु पक्षधर्मताऽपि तदानीमना कां क्षितत्वादित्यर्थः । अत एव हेत्ववयवेऽपि न हेतुसम्बन्धवाचकपदर्श. ( १ ) ० स्य विशिष्टविष० । ( २) ० तापशलि० |