पृष्ठम्:न्यायलीलावती.djvu/६०२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

न्यायलीलावतीकण्ठाभरण-सविवृतिप्रकाशोद्भासिता ५२५ यथा व्यभिचाराग्रहेsपि व्यभिचारशङ्कायां नानुमानम्, त. था व्याप्यपक्षधर्मयो (१) वैजात्याग्रहेऽपि वैजास्यशङ्कायां नानु. मानम्, हेतोर्व्याप्यत्वासिद्धत्वात् । तस्माद् व्याप्यपक्षधर्मयोरेकजा- तीय (२) वेदनमनुमितिकारणं वाच्यम् । स एव परामर्श इति । अनुमानम् ॥ न्यायलीलावतीकण्ठाभरणम् मिति ज्ञानं विना तदनिवृत्तेस्तज्ज्ञानमेव द्रष्टव्यमित्याह - व्यभिचारैति । वैजात्यशङ्का वह्निव्याप्यो न वेति सन्देहः । स एवेति । व्याप्यत्वेन पक्षधमैताग्रह एवेत्यर्थः । असन्निकृष्टस्तु न व्याप्तिस्मृतिलहक्कृतेन मनसैव परामर्षो जन्यते व्यापाराभावाच्च स्मृतिर्न प्रमाणान्तरम् । यद्यपि धूमे धूमत्वेन गृहीतव्याप्तिस्मरणानन्तरं वह्निव्याप्योऽयं न वेति संशयो न स्यादेव विशेष दर्शनात, सामान्यनिश्चयेऽपि पक्षीयधूमे सं. शयः स्यादिति चेन्न । धूमो वह्निव्याप्य इति ज्ञानानन्तरमयं धूमो वह्निव्याप्यो न वेति विशेष संशयस्यानुदयात् । तथापि वह्निव्याप्यवा. नयमिति शाब्दज्ञानादनुमितिदर्शनादन्यत्रापि तथा कल्पनात् । कि. च व्याप्तेर्विशेषणस्य स्मरणे विशेष्यण लिङ्गेन सहेन्द्रिय सन्निकर्षे विशिष्टज्ञानस्यैव सम्भवात् । न चानुमितिसामग्या बलवत्त्वात् सेव स्यादिति वाच्यम् | तावन्मात्रस्यानुमिति सामग्रीत्वाभावस्योक्तत्वात् । न्यायलीलावतीप्रकाशः तोपनय एव उपनयस्य फलमित्यर्थः । यथेति । यन्निश्चयोऽनुमितिप्र तिबन्धकस्तस्संशयस्यापि तत्त्वादित्यर्थः । वैजात्येति । अत्र वैजात्यम. व्याप्यत्वम् । तथा व यज्जातिपुरस्कारेण व्याप्तिर्गृहीता पक्षधर्मस्य तदन्यजातीयत्वशङ्कायां वह्निव्याप्योऽयं धूमो न वेति संशयात्पक्षवृ त्तिधूमे धूमत्वेन ज्ञातेऽप्यनुमितिर्न स्यादिति पक्षधर्मस्य व्याप्यत्वज्ञा नमावश्यक मित्यर्थः । तद्द्दष्टान्तेनाऽन्यत्रापि तत्साध्यमित्यभिप्रेत्याह- स एवेति । धूम व्यय इति स्मरतो घूमत्वज्ञानस्य विशेष- दर्शनत्वात्सँशयो न युक्तः । अन्यथा तत्र परामर्षोऽपि न स्यात् । ( १ ) ० या व्याप्तिपक्षधर्म्मतयो ० । ( २ ) ० तीयत्ववे० |