पृष्ठम्:न्यायलीलावती.djvu/६०६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

न्यायलीलावतीकण्ठाभरण-लविवृतिप्रकाशोन्द्रासिता ५२९ काङ्क्षण व्यभिचारः, तत्र संसृष्टार्थपरत्वस्यैवाभावात् । न्यायलीलावतीकण्ठाभरणम् कांक्षादीनां च ज्ञातानामेव हेतुत्वम् । अन्यथा तद्भमे भ्रमानुदयः स्यात् । ज्ञायमान करणे ज्ञानोपयोगिव्यभिचारिखैलक्षण्यत्वाच्चाकांक्षा- दीनां व्याप्तिवज्ज्ञायमानतयैव हेतुत्वात् । प्रतारकवाक्ये च न व्यभि न्यायलीलावतीप्रकाशः व्यभिचारिवलक्षण्यात व्याप्तिवत् ज्ञानोपयोगित्वसाधनात् । न चा प्रयोजकत्वम, आकांक्षाद्यसत्वेऽपि तद्भमेण संसर्गप्रत्ययात्, अन्यथा शब्दाभासोच्छेदापत्तेः । ज्ञानावच्छेदकतया च संसर्गसिद्धिः, शानज्ञान. स्य तद्विषयविषयत्वात् । संसर्गे च सम्बन्धिन एव विशेषत्वात् पक्ष. धर्मताबलेन व्यापकत्वेनागृहीतस्यापि संतर्गविशेषस्य सिद्धिः | न चैवं भ्रान्तिज्ञानमपि भ्रमः स्यात् । न ह्यसद्विषयत्वेन भ्रमत्वं भ्रमवि षयाणां सत्त्वात्, किन्तु व्यधिकरणप्रकारकत्वेन | न च भ्रमस्य ज्ञाने व्यधिकरणप्रकारकत्वं, रजतत्वप्रकारकत्वस्य भ्रमे सत्वात् । अन्यथा मानाभावाद्भ्रमोच्छेदापत्तेः । न च प्रतारकवाक्ये व्यभिचारः, तत्र विशेषदर्शनेन संसर्गज्ञानाभावादिति वाच्यम् । तत्र संसर्गे यो- ग्यताविरहात् । अत एव विसंवादिवाक्ये शुकवदुच्चरिते न व्यभिचा. रः, संसगंधीस्तत्र योग्यता भ्रमात् । न च भ्रान्तप्रतारकवाक्ये व्यभि चारः, कथंवा तत्र संसर्गप्रमा वक्तृज्ञानानुमानासम्भवादिति वाच्यम्। न्यायलीलावतीप्रकाशविवृतिः नोयोगे च व्यभिचार इति चरमपदम् । तयोश्च भ्रमेऽपि हेतुत्वम् । व्याप्ते: शब्दशक्तेश्च प्रमामात्र हेतुत्वमेव । न हि तयोर्भ्रमेऽपि हेतुत्वं, तदभावेऽपि भ्रमोत्पत्तेरिति न दृष्टान्तासिद्धिः । आकाङ्क्षरेपि न भ्रमहेतुत्वं तदभावेऽपि तदुत्पत्तेरिति न स्वरूपासिद्धिरिति भावः । अन्यथेति । आकाङ्क्षादिभ्रमजन्यशाब्दभ्रमानुपपत्तरित्यर्थः । ज्ञानज्ञानस्येतित विषयग्राहकसामग्रीसहकृत सामग्रीजन्यस्येत्यर्थः । रजतत्वप्रकारत्वस्येति । प्रकारत्वेन सम्बन्धेन रजतत्वस्येत्यर्थः । अन्यथेति । भ्रमविषयत्वेन भ्रम इत्यर्थः । तत्र विशेषेति । आहार्यज्ञानस्य प्रमात्वात् साध्यस्य च प्रमाघटितत्वादित्यर्थः । योग्यताश्रमादिति । लिङ्गभ्रमाल्लैङ्गिको भ्रम इत्यर्थः । कथं वेति । भवन्मते शब्दस्याप्रमाणत्वादिति भावः । ईश्वरस्यै