पृष्ठम्:न्यायलीलावती.djvu/६०७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ज्यायलीलावती तात्पर्यञ्च ज्ञातं तदर्थप्रतीतिकारणम्, श्वेतो धावतीत्यादौ लक्ष- णायां च तथादर्शनात् । संसृष्टार्थपरत्वं चानन्यथासिद्धसंभूयो- च्चारणादेवावधार्यत इति शब्दभंगः । न्यायलीलावतीकण्ठाभरणम् चारः, योग्यताविरहेण तत्र हे तोरेवागमनात | भ्रान्तप्रतारकवाक्येऽ. पि ईश्वरसंसर्गज्ञानपूर्व्वकत्वान्न व्यभिचारः । ननु संसृष्टार्थपरत्वं सं सृष्टार्थतात्पर्थ्यकत्वं तात्पर्थ्यञ्च ज्ञातमुपयुज्यत इति न हेतुविशेषण- मुपपन्नमित्याह - तात्पर्यश्चेति । नानार्थस्थले लक्षणायां तज्ज्ञान कल्पनात् । ज्ञायमानकरणे ज्ञानोपयोगिव्यभिचारिवैलक्षण्यस्य तत्रापि सम्भवा. श्वेत्यर्थः । ननु तथापि हेयमेतदित्याह संसृष्टार्थेति । सम्भुयोच्चारण स्य पचतीत्युक्ते प्रत्यक्षोपस्थितकलायादेरन्वयबोधाभावात्, अध्या- हारे चान्वयबोधदर्शनात् हेतुत्वमिति भावः । न्यायलीलावतीप्रकाश: - वेदवदीश्वरस्यैव तत्र संसर्गज्ञानानुमानात् । ननु वाक्यार्थज्ञाने तात्पर्यज्ञानस्याहेतुत्वात् संसृष्टार्थपरत्वं न ज्ञातुं शक्यत इति विशे- षणासिद्धिरित्यत आह - तात्पर्य चेति । तात्पर्यज्ञानं शाब्दज्ञानोपयोगि ज्ञायमानकरणे ज्ञानोपयोगिव्यभिचारिवैलक्षण्यत्वात् व्याप्तिवत् । अन्यथाऽन्य परादन्यान्वयबोधो न स्यात् । न च तात्पर्य ग्राहकप्रका. . रणत्वादेः प्राथमिकत्वादावश्यकत्वाश्च कारणत्वम्, तेषामननुगतत्वेन. व्यभिचारात् तात्पर्यव्याप्यत्वस्याननुगमेऽपि सत्त्वात् । श्वेत इति । श्वित्री नेनेक्ति, श्वेतगुणयुक्तः पुरुषो द्रुततरं यातीत्यत्रार्थद्वये यत्र इलेषस्तत्र तात्पर्यग्रहं विना अन्यतरनिश्चयाभावादित्यर्थः । लक्षणा.. यां चेति । यष्टीः प्रवेशयेत्यत्र संसर्गेऽनुपपत्तिज्ञानाभावात्रान्वयानुपप. त्तिज्ञानं लक्षणाबीजं किन्तु तात्पर्यानुपपत्तिज्ञानम्, साच तात्पर्ये ज्ञात | एव भवतीत्यर्थः । अनेकार्थे वाच्यत्वनिर्णयोऽपि तात्पर्यज्ञानं विना- न स्यादित्यपि द्रष्टव्यम् । संसृष्टार्थेति । न च समभिव्याहारविशेष. ज्ञानं न हेतुः पचतत्युिक्ते अन्योक्तेन स्वयं वा स्मृतेन कलायपदे- न्यायलीलावतीप्रकाशविवृतिः वेति । अनाहार्यज्ञानमेव प्रमारूपमादाय तत्र साध्यसत्त्वमित्यपि मन्त व्यम् । संसृष्टार्थपरत्वमिति । विवक्षितहेतावपि तात्पर्य प्रवेशादिति भावः