जातीयस्य, प्रयुच्यते चायमसति हत्त्यन्तरे प्रतिभासमानजातीय इति । न चायमसिद्धः, मुख्यानुपपति विनोपचारस्यासम्भवात् । सादृश्यवति प्रयोगस्य कल्पनागौरवपत्तिहृतत्वात् [१] । व्यक्तिषुप्रयोगस्यानन्त्यदूषित्वात् । नूनमयमेतज्जातीयाभिधानाय प्रयुज्यत इति निश्चयोपपत्तेः । न चेदेवमुपमानेऽपि वृत्त्यन्तरनिमि-
न्यायलालावतीकण्ठाभरणम्
त आह मुख्येति । ननु तथापि गवयत्वविशिष्टोऽयं धर्मी गवयपदवाच्य इति साध्यं न सिध्येत यावता गोसादृश्यस्यैवातिदेशवाक्यप्रत्यक्षाभ्यां गृह्यमाणस्य प्रवृत्ति निमित्तत्वादत आह सादृश्यवतीति । गोसादृश्यप्रवृत्ति निमित्तत्वे गौरवाख्यं तर्कमवतरेदेवेति भावः । ननु किमत्र प्रवृत्तिनिमित्तत्वेनाकाशादिपवद् व्यक्तिवाचकमेव गवयपदं स्यादत आह व्यक्तिध्विति । साध्य उपसंहरति नूनमिति । उपचारसम्भावनायां सादृश्यस्य प्रवृत्तिनिमित्तत्वसम्भा वनायां च उपमानादपि नेहशफलसिद्धिरित्याह नचेदेवमिति । ननु त-
न्यायलीलावतीप्रकाशः
गवय इत्याप्तवाक्यात् सादृश्यविशिष्टे गवयशब्दवाव्यतोपगमात् गवयत्व विशिष्टे गवयपदप्रयोगोऽसिद्ध इति विशेष्यासिद्धिरित्या शङ्क्य निराकरोति--न चायमिति । वृत्स्यन्तरस्यानुपपत्तिगम्यत्वात्तदभावे तदभावस्य निश्चयान्न विशेषणासिद्धिः, गवयत्वोपस्थितौ तस्य जातित्वेनाखण्डत्वाद्गोसादृश्यस्योपाधित्वेन गुरुत्वादप्रतीतगुनां बनेचराणामप्रयोगापत्तेश्च गवयत्वस्य प्रवृत्तिनिमित्तत्वनिश्चयान्न विशेष्यासिद्धिरित्यर्थः । एतच्चानन्यथासिद्धसमभिव्याहारबलेनार्थपरतया प्रयुज्यमानत्वे सामान्यतः सिद्धे सत्युक्तमिति द्रष्टव्यम् । स्वरूपासिद्धि परिहरति - व्यतिष्विति । न चेदेवमिति । गवयत्वे प्रयो
न्याय लीलावतीप्रकाशविवृतिः
निमित्तत्वनिश्चये सिद्धसाधनमत आह एतञ्चेति । तथा च यत्र शक्तिलक्षणौदासीन्येन गवयत्वविशिष्टार्थपरतया प्रयुज्यमानत्वं निश्चितं मानान्तरात्र वृत्यन्तरव्यतिरेकनिश्चय स्तत्रानुमानावतार इति भावः। स्वरूपासिद्धिमिति । यद्यपि पूर्वमपि स्वरूपासिद्धिरेव परिहृता तथापि
- ↑ वप्रतिहतत्वादिति मु० पु० पाठः ।