पृष्ठम्:न्यायलीलावती.djvu/६१०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

न्यायलीलावतीकण्ठाभरण- सविवृतिप्रकाशोद्भासिता ५३३ तान्तर विषय विशिष्टप्रयोग सम्भावनायामपेक्षितासिद्धिमसङ्गात् । तथाच तस्वकौमुद्यामाचार्य एवमेवोपमानं प्रचिक्षेपे । किरणावली- कारस्तु - कल्पनालाघवात् सादृश्य विशिष्ट व्यक्तिवाच्यताप्रतिपा दकत्वेऽतिदेशवाक्यस्य प्रतिक्षिप्ते उपलक्षणीयेन गवयशब्दवा च्यता ( १ )न्वयो गोसदृशो गवयशब्दवाच्य इत्यतो भासते गंगायां घोष इतिवत् । न च वाच्यं लक्षणस्वरूपान्वयेनैव पर्यवसानमत्र, न्यायलीलावतीकण्ठाभरणम् वैवैतदुपमानप्रतिक्षेपे स्वातन्त्र्यमत आह तथाचेति । वाचस्पतिमि- मिश्रैरपि सांख्यटीकायां तत्त्वकौमुद्यामुपमानप्रक्षेपेऽयं पन्था दार्श- त इत्यर्थः । कल्पनालाघवादिति । गवयत्वं जातित्वेनाखण्डं लघु, सादृश्य. न्तूपाधित्वेन सखण्डं गुरु, तेन सादृश्यविशिष्टं न वाच्य मित्यववृते च? उपलक्षणीयं यद्गवयत्वं तद्विशिष्टे गवयपदवाच्यतान्वयोऽतिदेश. वाक्यादेव प्रतीयतेऽन्यत्रोपमानं न वा अनुमानमित्यर्थः । लक्षणस्वरू पेति । लक्षयतीति लक्षणं गोसादृश्यम् । तत्रेति दृष्टान्तो गंगायां घोष न्यायलीलावतीप्रकाशः गस्य वृत्यन्तरात् गोसादृश्यस्य प्रवृत्तिनिमित्तत्वान्मानान्तरादप्यु. पपत्तावुपमानाद्भवयत्वस्य वाच्यत्वप्रवृत्तिनिमित्तत्वासिद्धेरित्यर्थः । तथा च सादृश्यस्य प्रवृत्तिनिमित्तत्वे यावद्द्वौरवाख्यः प्रतिकूलत नावतरति तावन्नोपमानास्यावतार इति । तर्केणेतराप्रवृत्तिनिमित्त. कत्वे निश्चित गवयपदं गवयत्वप्रवृत्तिनिमित्तकमितराप्रवृत्तिनिमि स्तकत्वे सति सप्रवृत्तिनिमित्तकत्वाद्यन्नैवं तन्नैवमित्यनुमानाद्ववयत्वस्य प्रवृत्तिनिमित्तत्व परिच्छेद: स्यात् । कल्पनीय प्रमाणसहकारित्वक ल्पनापेक्षया क्लृप्तमान सहकारित्वकल्पनस्य लघुत्वादिति भावः | कल्पनालाघवादिति । अतिदेशवाक्यस्याप्तोकत्वेन साढइया प्रवृत्तिनिमि. सकत्वे निश्चिते गवयपदस्य च सप्रवृत्तिनिमित्त कत्वव्यवस्थितौ लक्षणया गोसदृशपदेन गवयत्वमुपस्थाप्यत इति शब्दादेव गवय- शब्दवाच्यत्वं परिच्छिद्यते, अतो नोपमानं मानान्तरमित्यर्थः । लक्षं- · (२) तार्थंयोगोगवय इति मु० पु० पाठः ।